________________
उत्तराध्य.
अध्ययनम्
बृहद्वृत्तिः
व्याख्या-यथा दीपाहीपशतं 'प्रदीप्यते' ज्वलति सोऽपि च दीप्यते दीपो, न पुनरन्यान्यदीपोत्पत्तावपि क्षीयते, तथा किमित्याह-दीपसमा आचार्या 'दीप्यन्ते' समस्तशास्त्रार्थविनिश्चयेन स्वयं प्रकाशन्ते 'परं च' शिष्यं 'दीपयन्ति' शास्त्रार्थप्रकाशनशक्तियुक्तं कुर्वन्ति, इह च 'तात्स्थ्यात् तद्यपदेश' इत्याचार्यशब्देन श्रुतज्ञानमेवोक्तं, भावाक्षीणस्य प्रस्तुतत्वात्तस्यैव चाक्षयत्वसम्भवादिति गाथार्थः ॥८॥ नामाऽऽयादयस्त्रयःसुज्ञाना इति भावायं व्याचष्टे
॥
७॥
RECRUCIXC
Eभावे पसत्थमियरो नाणाई कोहमाइओ कमसो। आउत्ति आगमुत्ति य लाभुत्ति य हुंति एगट्ठा ॥९॥
व्याख्या-'भावे' विचार्ये इति शेषः, प्रशस्तः मुक्तिपदप्रापकत्वेन 'इतरः' अप्रशस्तो भवनिबन्धनत्वेन, प्रक्रमादायः, किंरूपः पुनरयं द्विविधोऽपीत्याह-'ज्ञानादिः' आदिशब्दाहर्शनादिपरिग्रहः, 'कोहमाइओ'त्ति मकारस्यालाक्षणिकत्वात् क्रोधादिकः, आदिशब्दान्मानादिपरिग्रहः. 'कमसो'त्ति आर्षत्वात् क्रमतः, किमुक्तं भवति ?-प्रशस्तो ज्ञानादिः, अप्रशस्तः क्रोधादिः । इह च ज्ञानादेः क्रोधादेश्च आयत्वमायविषयत्वाद्विषयविषयिणोरभेदोपचारेण आयते तमित्याय इति कर्मसाधनत्वेन वा, ज्ञानादिप्रशस्तभावायहेतुत्वाचाध्ययनमपि भावायः । 'तत्त्वभेदपर्याय-13 ाख्य'ति पर्यायकथनमपि व्याख्याङ्गमिति पर्यायानाह-आय इत्यागम इति च लाभ इति च भवन्त्येका
॥७॥
JainEducation
For Pawale & Personal use only