________________
प्रदेशापेक्षया त्वनुत्तराणि, उपरितनवस्त्वपेक्षयैव सोत्तरत्वात् इति गाथार्थः ॥ २॥ उत्तरस्यानेकविधत्वेन येनात्र प्रकृतं तदाह
कमउत्तरेण पगयं आयारस्सेव उवरिमाइं तु । तम्हा उ उत्तरा खलु अज्झयणा हुंति णायवा ॥ ३॥
१९५-LESALMER
व्याख्या-क्रमापेक्षमुत्तरं क्रमोत्तरं, शाकपार्थिवादित्वान्मध्यपदलोपी समासः, तेन प्रकृतम्-अधिकृतम् , इह च क्रमोत्तरेणेति भावतः क्रमोत्तरेण, एतानि हि श्रुतात्मकत्वेन क्षायोपशमिकभावरूपाणि तद्रूपस्यैवाऽऽचाराङ्गस्योपरि पठ्यमानत्वेनोत्तराणीत्युच्यन्ते, अत एवाह-'आयारस्सेव उवरिमाईति एवकारो भिन्नक्रमः, ततश्चाचारस्योपर्येव-उत्तरकालमेव 'इमानी'ति हृदि विपरिवर्तमानतया प्रत्यक्षाणि, पठितवन्त इति गम्यते, 'तुः' विशे-/ पणे, विशेषश्चायं यथा-शय्यम्भवं यावदेष क्रमः, तदाऽऽरतस्तु दशवकालिकोत्तरकालं पठ्यन्त इति, तम्हा उ'त्ति 'तुः' पूरणे, यत्तदोश्च नित्यमभिसम्बन्धः, ततो यस्मादाचारस्योपर्यवेमानि पठितवन्तस्तस्माद् 'उत्तराणि' उत्तरशब्दवाच्यानि, 'खलुः' वाक्यालङ्कारेऽवधारणे वा, तत उत्तराण्येव 'अध्ययनानि' विनयश्रुतादीनि भवन्ति 'ज्ञातव्यानि' अवबोद्धव्यानि, प्राकृतत्वाच लिङ्गव्यत्यय इति गाथार्थः ॥३॥ आह-यद्याचारस्योपरि पठ्यमानत्वेनोत्तरा
in Educ
a
tional
For Private & Personal use only
.jainelibrary.org