________________
आवश्यक- निर्युक्तेरव चूर्णिः ।
अस्वा . ध्यायिकनियुक्तिः नि०मा० १३५२. १३५६
-
-
आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धवे । एए महामहा खलु एएसिं चेव पाडिवया ॥१३५२॥
आसाढी-आषाढपूर्णिणमायां स्यात् , इन्द्रमहा-आश्विनपूर्णिमायां, 'कत्तिय 'त्ति कार्तिकपूर्णिमाया, 'सुगिम्ह 'त्ति चैत्रपूर्णिमायां, एते अन्तिमदिवसाः, यस्मिन्यस्मिन् देशे यतो यतो दिवसात् महामहस्तदिवसादारभ्य यावदन्त्यदिवसस्तावत्स्वाध्यायो न कार्यः, पूर्णिमासु महामहे समर्थितेऽपि परिसरपर्यटनक्रीडाप्रियव्यन्तरादिभ्यछलनासम्भवाचतसृषु प्रतिपत्स्वपि स्वाध्यायो न क्रियते ॥ १३५२ ॥ प्रतिषिद्धकाले कुर्वत एते दोषाःकामं सुओवओगो तवोवहाणं अणुत्तरं भणियं । पडिसेहियंमि काले तहावि खलु कम्मबंधाय ॥१३५३॥
उपधान-योगोदहनं ॥ १३५३ ॥ छलया व सेसएणं पाडिवएसुं छणाणुसज्जंति। महवाउलत्तणेणं असारियाणं च संमाणो ॥ १३५४ ॥ अन्नयरपमायजुयं छलिज अप्पिड्डिओ न उण जुत्तं । अद्धोदहिट्रिइ पुण छलिज जयणोवउत्तंपि १३५५]
सरागसंयतत्वादेव इन्द्रियविषयाद्यन्यतरप्रमादयुक्तो भवेत् , विशेषतो महामहेषु, तं प्रमादयुक्तं प्रत्यनीकदेवता छलयेत , यतनायुक्तं पुनः साधुमल्पर्द्धिको देवोऽोदध्यनस्थितिकः छलयितुं न शक्नोति, अद्धोदधिस्थितिस्तु यतनायुक्तमपि पूर्वरिस्मरणतश्छलयेत् ॥ १३५५ ॥ ' चंदिमसूरुवरांग 'त्ति अस्य व्याख्याउक्कोसेण दुवालस चंदु जहन्नेण पोरिसी अट्ठ । सूरो जहन्न बारस पोरिसि उकोस दो अट्ठ ॥१३५६॥
-
॥ १६९॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org