________________
श्री धीरसुन्दर आव ० अव चर्णिः ॥२१७॥
Jain Education International
सर्वेऽपि तीर्थकृतः स्वयम्बुद्धा तथापि कल्प इतिकृत्वा लोकान्तिकदेवाः सम्बोधनं कुर्वन्ति ततः सम्बोधनं परित्याग इति परित्यागविषये विधिर्वाच्यः, प्रत्येकमिति कः कियत्परिवारो निष्क्रान्तः १, उपधिविषयो विधिafoयः कः केनोपधिरासेवितः १ का वा दिनेयानामनुज्ञातः १, अन्यलिङ्ग' साधुलिङ्ग कुलिङ्ग-तापसादिलिङ्ग, तत्र न तेऽन्यलिङ्गेन निष्क्रान्ता नापि कुलिङ्गेन, किन्तु तीर्थकर लिङ्ग एव, ग्रामाचाराविषयाः परीषदाः क्षुदादयः, तयोर्विधिर्वाच्यः, कुमारप्रत्रजितैर्विषयान भुक्काः, शेषैर्भुक्ताः, परीषदाः सर्वैर्निर्जिता एवेति ॥ २०९ ॥ जीवोवलंभ ८ सुयलंभे ९, पच्चक्खाणे १० अ संजमे ११ ।
छत्थ १२ तवोकम्मे १३, उप्पाया नाण १४ संग हे १५ ॥ २१०॥
जीव इत्युपलक्षणं सर्वैस्तीर्थकृद्भिनवजीवादिपदार्था उपलब्धाः श्रुतलाभः पूर्वभवे प्रथमस्य द्वादशाङ्गान्यासन्, शेषाणामेकादशः प्रथमान्तस्याप्येकारान्तता सूत्रे प्राकृतत्वात् प्रत्याख्यानं - पश्च महात्रतरूपं आद्यचरमयोः, मध्यमानां तु चतुर्महाव्रतरूपं, संयमोऽप्याद्यचरमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विमेदः मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषां कः कियन्तं कालं छन्नस्थासीत् ?, तपः कर्म किं कस्येति वाच्यं, ज्ञानोत्पादो वाच्यो यस्य यस्मिन्नहनि केवलमुत्पन्नमिति, सङ्ग्रहः - कस्य कियान् शिष्यादि ? || २१० ||
For Private & Personal Use Only
गाथा- २
॥२१
www.jainelibrary.org