SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रोधीरसुन्दरसू० आव०अवचूर्णिः ॥६॥ को प्रत्ययः, परि अो-वेदनं पर्यवः, मनसि मनसो वा पर्यवो मनःपर्यवः सर्वतो मनोद्रव्य परिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्यायो, भावेऽल्ल्ययः, मनसि मनसा वा पर्यया मनःपर्ययः, सर्वतस्तत्परिच्छेदः स चासौ ज्ञानं च मनःपर्ययज्ञानं वा, मनपर्ययःज्ञानं अपरे मणपजयनाणमिति पाठे मनःपर्यायज्ञानमिति शब्दसंस्कारमाचक्षते, कर्मणोऽणित्यणि, मनःपर्यायं च तत् ज्ञानं च मनःप०, यद्वा मनसः पर्यायाः, पर्याया-भेदा इत्यर्थः मनःपर्यायाः तेषां तेषु वा सम्बन्धि ज्ञानं, मनःपर्यायज्ञानं इई चार्धतृतीयद्वीपसमुद्रान्तरवत्तिसंज्ञिमनोद्रव्यालंबनमेव तथा शब्दोऽवधिज्ञानेन सहास्य छमस्थत्वादिभिः सारुप्पप्रदर्शनार्थः, तथाहि, यथावधिः छमस्थस्य स्यात् तथेदमपि, यथावाऽवधिज्ञानं रूपिद्रव्यगोच तथेदमपि, अस्य मनःपुद्गलालंबनत्वात् , यथा चावधिः क्षायोपशमिके भावे तथा प्रस्तुतमपीति भावसाधर्म्य, यथा चावधिज्ञानं प्रत्यक्ष तथा मन:पयार्य ज्ञानमपि, तथाहि-अक्ष-जीवं प्रति साक्षाद्वर्तते यद् ज्ञानं तत् प्रत्यक्ष. तच्चावध्यादि त्रिभेदमिति, प्रत्यक्षसाधर्म्य । केवलं एकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् , मत्यादिज्ञाननिरपेक्षता च केवलज्ञानप्रादुर्भाव मत्यादीनामसंभवान्, ननु कथं तदसंभवः, यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमे एव प्रादुष्पन्ति, ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत् , उच्यते, यथा जात्यमरकतादिमणिमलोपदिग्धस्य यावन्न समूलमलापगमस्तावद्यथा २ देशतो मलविलयस्तथा तथा देशतो व्यक्तिर्जायते, सा च क्वचित् कदाचित् कथंचिद्भवतीत्यनेकविधा, तथाऽत्मनोऽपि सकलज्ञानात्मकस्याप्यावरणमलपटलतिरोहितस्य यावन्न सकलकर्ममलापगमस्तावद्यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा देशतस्तस्य गाथा ॥६॥ For Privale & Personal use only Jain Education Internal library.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy