________________
सका
॥ ५९३ ॥
Jain Education
कर्म्मण उदयेन निर्वृत्तः औदयिकः, तथा उपशमेन, कर्म्मण इति गम्यते, निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः; तथा उदितकर्माशस्य क्षयेण अनुदितस्योपशमेन निर्वृत्तः क्षायोपशमिकः, परिणाम एव पारिणामिकः, सन्निपातोद्वित्रिभावानां संयोगः, सन्निपाते भवः सान्निपातिकः, स च ओघतोऽनेक भेदोऽवसेयः, अविरुद्धास्तु पञ्चदश भेदाः, उक्तं च - "ओदइयखतोवसमे परिणामेक्केक गतिचउक्केवि । खयजोगेणवि चउरो तदभावे उवसमेणपि ॥ १ ॥ उवसमसेढी एको केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइय भेदा एमेव पन्नरस ॥ २ ॥” एवमनेन प्रकारेण षड्विधः - षट्प्रकारो भावलोकः, भाव एव लोको भावलोकः ॥
तिवो रागो य दोसो य, उइन्नो जस्स जंतुणो । जाणाहि भावलोगं अनंतजिणदेसिअं सम्मं ॥ २०३ ॥ (भा.) तीत्रः - उत्कटो रागः - अभिष्वङ्गलक्षणो द्वेषः- अप्रीतिलक्षणो यस्य जन्तोः प्राणिन उदीर्णस्तं प्राणिनं तेन भावेन लोक्यत्वात् जानीहि भावलोकमनन्तजिनदेशितं एकवाक्यतया अनन्तजिनकथितं सम्यक् - अवैपरीत्येन ॥ सम्प्रति पर्यायलोको वक्तव्यः, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह पुनर्नैगमनयदर्शनं मूढनयदर्शनं चाधिकृत्य पर्यायलोकमाह - दवगुणखित्तपज्जव भवाणुभावे अ भावपरिणामे । जाण चउद्दिहमेअं पज्जवलोअं समासेण ॥ २०४ ॥ (भा.)
द्रव्यस्य गुणा-रूपादयः तथा क्षेत्रस्य पर्याया-अगुरुलघवः, भरतादिभेदा इत्यन्ये, भवस्य- नरकादेरनुभावाः - तीव्रतमदुःखादिरूपाः, तथो चोक्तम्- "अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसं पञ्चमागाणं ॥ १ ॥ असुभा उबियणिज्जा सदरसा रूवगंधफासा य । नरए नेरइयाणं दुक्कयकम्मोवलित्ताणं ॥ २ ॥" इत्यादि,
onal
For Private & Personal Use Only
भवभाव
॥ ५९३ ॥
ainelibrary.org