SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ HASSASSSSS नयो नामंति एवमुक्तेन न्यायेन य उपदेशः क्रियायाः प्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं चतुर्विधे सामायिके देशविरतिसर्वविरतिरूपं सामायिकद्वयमेवेच्छति, क्रियाप्रधानत्वादस्य, सम्यक्त्वसामायिक श्रुतसामायिके तु तदर्थमुपादीयमानत्वेनाप्रधानत्वान्नेच्छति, गुणभूते वा इच्छतीति, उक्तः क्रियानयः, इत्थं ज्ञाननयक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विधेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं, पक्षद्वयेऽपि युक्तिसम्भवात् , आचार्यः पुनराह ससिपि नयाणं बहविहवत्तत्वयं निसामित्ता। तं सवनयविसुद्धं जं चरणगुणढिओ साह॥१०६७॥ ___ अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयति-सवेसिपि नयाण'मित्यादि, सर्वेषामपि-मूलनयानां, अपिशब्दात् तद्भेदानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां-सामान्यमेव विशेषा एव उभयमेव परस्परमनपेक्षमित्यादिरूपं, अथवा नामादिनयानां मध्ये को नयः कं साधुमिच्छतीत्यादिरूपां निशम्य-श्रुत्वा तत् सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात्सर्वे नयास्तत्त्वतो भावनिक्षेपमिच्छंतीति ।। इति श्रीमलयगिरिविरचितायामावश्यकटीकायां सामायिकाध्ययनं समाप्तम् ॥ सामायिकस्य विवृतिं कृत्वा यदवाप्तमिह मया कुशलम् । तेन खलु सर्वलोको लभतां सामायिकं परमम् ॥ १॥ यस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥२॥ ग्रन्थानं २२००० RegasexamarATaaran2525225casecasasanaseva इति श्रीमलयगिरिविरचितायामावश्यकबृहद्वृत्ती सामायिकाध्ययनं समाप्तम् ।। WenceRsERERSERENENTnsessersenenewens RECRRESAGARCASCRACARA साता Jain Education For Private & Personel Use Only HOMjainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy