________________
प्रभृतीनां व्यापारकरणमिति भावः, गुणकरणं पुनर्दिविधं-द्विप्रकार, कथमित्याह-'तपःकरणं' तपसः-अनशनादेर्बाह्याभ्यन्तरभेदभिन्नस्य करणं-कृतिस्तपःकरणं, संयमे च-संयमविषयं चाश्रवविरमणादि करण मिति भावः॥ साम्प्रतं योज|नाकरणं व्याचिरव्यासुराहमुंजणकरणं तिविहं मण-वय-काए य मणसि सचाइ । सट्टाणि तेसि भेओ चउ चउहा सत्तहा चेव ॥१०३८॥
योजनाकरणं त्रिविधं, तद्यथा-'मनोवाकाये'मनोवाकायविषयं, मनोविषयं वाग्विषयं कायविषयं चेत्यर्थः। तत्र मनसि सत्यादि योजनाकरणं, तद्यथा-सत्यमनोयोजनाकरणमसत्यमनोयोजनाकरणं सत्यमृषामनोयोजनाकरणं असत्यमृषामनोयोजनाकरणमिति, स्वस्थाने प्रत्येकं मनोवाकायलक्षणे तेषां-योजनाकरणानां भेदो-विभागो वक्तव्यः, तद्यथा-चतुर्धा चतुर्धा सप्तधा चेति, अयमत्र भावार्थ:-चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितं, एवं वाग्योजनाकरणमपि सत्यवाग्योजनाकरणादिचतुर्भेदमवसातव्यं, काययोजनाकरणं सप्तभेदं, औदारिककाययोजनाकरणं औदारिकमिश्रकाययोजनाकरणं
वैक्रियकाययोजनाकरणं वैक्रियमिश्रकाययोजनाकरणं आहारककाययोजनाकरणमाहारकमिश्रकाययोजनाकरणं कार्मणकाकाययोजनाकरणमिति ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणं, अधुना येनात्राधिकारस्तदुपदर्शनार्थमाह
भावसुअसद्दकरणे अहिगारो इत्थ होइ नायवो । नोसुअकरणे गुणझुंजणे अ जहसंभवं होइ ॥ १०३९ ।। भावश्रुतशब्दकरणे प्रकाशपाठे भावश्रुते च अधिकारो भवति कर्त्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, तस्यांते यथासम्भवमभिधानात् , भावश्रुत सामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छब्द विशिष्टः श्रुतभाव एव विव
NCREACARRANGALASAR
Jain Education
a
l
For Private & Personal Use Only
TRADhelibrary.org