________________
PRESEASCARRIGACASSACROR
कस्य च सतो नित्यत्वात् करणत्वानुपपत्तिः, आह-यद्येवं किमिति नियुक्तिकारेण निक्षेपगाथायामुपन्यस्तं ?, उच्यते-'वंजणेत्यादि, इह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वात् पुद्गला गृह्यन्ते, पर्यायं कथञ्चित् प्रागवस्थापरित्यागेनावस्थान्तरापत्तिं, व्यञ्जनयोगतः पर्यायो व्यञ्जनपर्यायः तमापन्नं सत् तथापि क्षेत्रकरणमुच्यते, इयमत्र भावना-यद्यपि नाम क्षेत्रमकृत्रिमत्वात् करणायोगि तथापि घटपटादिसंयोगतो ये तत्तदवगाह्यमानतालक्षणाः पर्यायास्तेषां करणोपपत्तितः क्षेत्रस्यापि करणोपपत्तिः, पर्यायपर्यायवतोः कथञ्चिदभेदादिति, उपचारतो वा क्षेत्रस्य करणं, तथा चाह-'इक्षुकरणादि' इक्षुक्षेत्रकरणमित्यादि, तथा च लोके वक्तारः-इक्षुक्षेत्रं मया कृतं शालिक्षेत्रं मया कृतमित्यादि, आदिशब्दादेव क्षेत्रे पुण्यादौ करणं क्षेत्रकरणं क्षेत्रे प्ररूप्यमाणं करणं क्षेत्रकरणमित्यादिपरिग्रहः ॥ उक्तं क्षेत्रकरणं, अधुना कालकरणं वक्तव्यं, तत्रेयं गाथाकालेऽवि नत्थि करणं तहावि पुण वंजणप्पमाणेणं । बवबालवाइकरणेहिं णेगहा होइ ववहारो॥१०३१॥
कलनं कालः कलासमूहो वा कालः तस्मिन् कालेऽपि, न केवलं क्षेत्रस्येत्यपिशब्दार्थः, नास्ति करणं-कृतिः, तस्य वर्तनादिरूपत्वात् , वर्तनादीनां च स्वयमेव भावात् , आह-यद्येवं किमिति नियुक्तिकृतोपन्यस्तं ?, उच्यते, तथापि व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया वर्तनाद्यभिव्यञ्जकत्वात् द्रव्याणि परिगृह्यन्ते, तत्प्रमाणेन तन्नीत्या तद्बलेन, तथाहि-वर्तनादयस्तद्वतां कथञ्चिदभिन्ना एव, ततश्च तत्करणे तेषामपि करणमेवेति, यदिवा समयादिकालापेक्षयाऽपि व्यवहारनयादस्ति करणं, तथा चाह-वववालवादिकरणैरनेकधा भवति व्यवहारः, उक्तं च-“ववं च बालवं चेव, कोलवं थीविलोयणं । गलादि वणियं चेव, विट्ठी हवइ सत्तमी ॥१॥"एतानि सप्त करणानि चलानिवर्तन्ते, चत्वारि तु शकुनिप्रभृतीनि
आ.सू.९५
Cir
Jain Educationlimit
For Private & Personal Use Only
(
Nainelibrary.org