SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ हर्षाश्रुधारया तुल्यं स पतन् पादपद्मयोः । अभ्युत्थायोद्धृत्य सनत्कुमारेणाभिषखजे ॥१५९॥ उभौ हर्षाश्रु वर्षन्तौ वार्षिकाविव वारिदौ । सविसयाँवप्रतय॑परस्परसमागमात् ॥१६॥ साश्चर्यैर्वीक्ष्यमाणौ तौ विद्याधरकुमारकैः । महाासनयोरासाश्चक्राते रोमहर्षिणौ ॥ १६१॥ अनन्यदृष्टिमनसौ तावभूतां परस्परम् । योगिनाविव रूपस्थध्यानमुद्रापरायणौ ॥ १६२॥ सनत्कुमारकुमारयोगाद् दिव्यौषधादिव । तदा महेन्द्रसिंहस्य श्रमो' रोग इवात्रुटत् ॥ १६३ ॥ सनत्कुमारो हर्षाथु प्रमृज्याथ खचक्षुषोः । महेन्द्रसिंहमित्यूचे ससुधोद्गारया गिरा ॥ १६४ ॥ कथमत्र समायासीरेकाक्यासीः कथं नु वा । मामज्ञासीः कथं वाऽत्र कथं वा कालमक्षिपः ॥ १६५॥ मद्वियोगे पितृपादाः कथं प्राणानधारयन् । कथं पितृभ्यामेकाकी प्रेषितोऽसीह दुर्गमे १ ॥१६६ ॥ इति पृष्टः कुमारेण बाष्पगद्गदवागथ । महेन्द्रसिंहः प्राग्वृत्तमाचचक्षे यथातथम् ॥१६७॥ ततः सनत्कुमारस्तं विद्याधरवधूजनैः । चतुरैः कारयामास मजनं भोजनादि च ॥ १६८॥ महेन्द्रसिंहस्तदनु विसयमेरलोचनः। सनत्कुमारमित्यचे विनयाद रचिताञ्जलिः॥१६९॥ तदा तेन तुरङ्गेणापहृतः कियती भुवम् । तदादि मद्वियोगे च प्राप्तं किमथवा त्वया ॥ १७ ॥ इयमृद्धिः कुतो वा ते प्रसीदाख्यातुमर्हसि । रहस्यभूतमेतत् ते गोपनीयं न चेन्मयि ॥ १७१॥ सनत्कुमार इत्युक्तश्चिन्तयामास चेतसि । आत्मकल्पे वयस्येऽस्मिन् गोपनीयं न किञ्चन ॥ १७२ ॥ १ समम् । २ उत्थाप्य। ३ तर्कितुमशक्यः परस्परसमागमस्तस्मात् । * गौ ॥ संव.॥ मो वेग संवृ. ॥ ४ आगतः। ५ खानम् । ६ विस्मयेन प्रफुल्लनेत्रः। • तप्रभृति । ८ स्वसदृशे । Jain Education Internal For Private & Personal Use Only Allww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy