SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व | सप्तमः त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सर्गः श्रीसनत्कुमारचक्रिचरितम्। ॥४३९॥ नदीकरिहरीनूचे मद्वन्धोर्ध्वनिरेष यत् । स वः पार्श्वे ततो लभ्यं सर्व ह्येकांशदर्शनात् ।। १२३ ॥ सर्वत्राप्रेक्ष्य सहृदमुच्चैरारुह्य शाखिनः । दिशो न्यरूपयद् भृयो मार्गभ्रान्त इवाध्वगः ॥ १२४ ॥ बद्धशोक इवाशोकेष्वाकुलो बकुलेष्वपि । असहः संहकारद्रुष्वमल्लो मल्लिकास्वपि ॥ १२५ ॥ न्यक्कारी कर्णिकारेषु पाटलः पाटलास्वपि । दूरस्थः सिन्दुवारेषु सोत्कम्पश्चम्पकेष्वपि ॥ १२६ ॥ पराशुखश्च मलयानिलेष्वपि खलेष्विव । स्फुटत्कर्णः कोकिलानां पञ्चमोच्चारितेष्वपि ॥१२७॥ अशान्ततापः पीयूपरश्मेरपि हि रश्मिषु । स वसन्तमतीयाय रोरपुत्र इवैककः ॥ १२८ ॥ ॥चतुर्मिः कलापकम् ॥ कुकूलैरिव विस्तीर्णैः पादपद्मनखम्पचैः । भृज्यमानोऽकांशुतप्त रजोभिः पदे पदे ॥ १२९ ॥ सद्यो निर्वाणदावाग्निभमदुःसंचरेऽध्वनि । पादतापमजानानोऽग्निस्तम्भमिव सूत्रयन् ॥ १३०॥ उष्णवात्याभिरनलज्वालाभिरिव भूरिभिः । वपुस्तापमगणयन् करी गिरिचरो यथा ॥ १३१ ॥ काथान् रोगीव सरितां पकिलान्यूष्मलानि च। पिबन् पयांसि स ग्रीष्मं भ्राम्यन्नेकोऽत्यवाहयत् ॥१३२॥ ॥ चतुर्भिः कलापकम् ॥ रक्षोभिरिव जीमूतैरुद्यद्विद्युन्मुखाग्निभिः । अक्षोभ्यमाणहृदयो विश्वविक्षोभणैरपि ॥ १३३ ॥ अखण्डप्रसरैर्धारासारैः र्शितशरैरिव । विध्यमानोऽपि संनद्ध इवामुघन मनागपि ॥ १३४ ॥ १ यत्रैकांपादर्शनं तत्र सर्व भवेदिति न्यायात् । *त्र प्रेका०॥ २ भानवृक्षेषु। तिरस्कर्ता। दीनपुत्रः। ५ तुपानलैः। नोह्यग्नि संवृ. ॥ ६ वाचूनां समूहो वाल्या। ष्मणानि का.॥ . मेधैः। तीक्ष्णबाणः। ९ वर्मितः। ॥४३९॥ Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy