SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ - CHAMPARENCREATE शक्रोऽभ्यधाद् द्रव्यलिङ्गं, प्रतिपद्यस्व केवलिन् ! । यथा वन्दे विदधे च, तब निष्क्रमणोत्सवम् ॥७४१॥ ततश्च बाहुबलिवद् , विदधे भरतेश्वरः । प्रव्रज्यालक्षणं केशोत्पाटनं पञ्चमुष्टिकम् ॥ ७४२ ॥ उपनीतं यथा सन्निहितदेवतया ततः । रजोहरणमुख्योपकरणं भरतोऽग्रहीत् ॥ ७४३ ॥ ववन्दे देवराजेन, ततश्च भरतेश्वरः । न जातु वन्द्यते प्राप्तकेवलोऽपि ह्यदीक्षितः ॥ ७४४ ॥ राज्ञां दशसहस्राश्च, प्राव्रजन्नार्षभिं श्रिताः । तादृशखामिसेवा हि, परत्रापि सुखाकरी ॥ ७४५ ॥ ___ अथ विश्वम्भराभारं, सोढर्भरतजन्मनः । राज्याभिषेकमकरोदादित्ययशसो हरिः ॥ ७४६ ॥ आरभ्य केवलोत्पत्तेर्ऋषभस्वामिवत् ततः । ग्रामाकरपुरारण्यगिरिद्रोणमुखादिषु ।। ७४७ ॥ धर्मदेशनया भव्यान् , देहभाजः प्रबोधयन् । पूर्वलक्षं विजहार, भरतः सपरिच्छदः ॥ ७४८ ॥ अष्टापदगिरी गत्वा, ततश्च भरतेश्वरः । चक्रे चतुर्विधाहारप्रत्याख्यानं यथाविधि ।। ७४९ ॥ अथैकमासपर्यन्ते, चन्द्रे श्रवणऋक्षगे । सिद्धानन्तचतुष्कोऽसौ, सिद्धिक्षेत्रमुपाययौ ॥ ७५० ।। ___ एवं च भरतः पूर्वलक्षाणां सप्तसप्ततिम् । कुमारभावेऽगमयत , प्रभो शासति मेदिनीम् ॥ ७५१ ॥ एकं माण्डलिकत्वे च, सहस्रं शरैदामसौ । अतिवाहितांश्छमस्थतया भगवानिव ॥ ७५२ ॥ एकवर्षसहस्रोनपूर्वलक्षाणि षट् तथा । आर्षभिर्व्यतिचक्राम, चक्रवर्तित्वमुद्वहन् ॥ ७५३ ॥ उत्पन्न केवलज्ञानो, विश्वानुग्रहकाम्यया । विजहे पूर्वलक्षं च, दिवसं भानुमानिव ॥ ७५४ ॥ *नृपा दशसहस्राणि प्रा° आ, सं २॥ : परलोकेऽपि । २ श्रवणनक्षत्रगे। ३ वर्षाणाम् । त्रिषष्टि.३० Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy