SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ RASAKAR कर्पूरागरुकस्तूरीधूपधूमैश्च सन्ततैः । कालिन्येव कलिन्दादि, प्लाव्यमानमहर्निशम् ॥ ६२५ ॥ अप्सरोगणसङ्कीर्ण, द्योः पालकमिवाऽऽगतम् । वैताढ्यमेखलाखण्डमिव विद्याधरीवृतम् ॥ ६२६ ॥ अग्रतः पार्श्वतः पश्चाचारुभिश्चैत्यपादपैः । माणिक्यपीठिकाभिश्च, भूषणैरिव भूषितम् ।। ६२७॥ अष्टापदाद्रेमूर्धन्यमिव माणिक्यभूषणम् । नन्दीश्वरादिचैत्यानां, स्पर्द्धयेवाऽतिपावनम् ॥ ६२८ ॥ तचैत्यं भरतस्याऽऽज्ञातुल्यकालं कलाविदा । तेन वर्द्धकिरत्नेम, व्यधीयत यथाविधि ॥ ६२९॥ [पोडशभिः कुलकम् ] तत्रैव कारयामास, दिव्यरत्नशिलामयीः । भ्रातृणां नवनवतेः, प्रतिमा भरतेश्वरः॥ ६३०॥ शुश्रूषमाणां प्रतिमामात्मनोऽपि महीपतिः । कारयामास तत्रैव, स हि भक्तेरवृप्तिकः ।। ६३१॥ चैत्याद् बहिर्भगवतः, स्तूपमेकमकारयत् । भ्रातृणां शतमेकोनं, स्तूपांश्च भरतेश्वरः ॥ ६३२॥ अत्र माऽऽशातनां कार्युर्गमनागमनैनराः । इत्यकाद् यत्रमयान् , लौहानारक्षकान् नृपः ॥ ६३३ ॥ आरक्षपुरुषैलौहैर्यत्रायुक्तैश्च तैरभूत् । नृणामगम्यं स्थानं तन्माद् बहिरिव स्थितम् ॥ ६३४ ॥ दण्डरलेन रत्नेशो, दन्तांश्चिच्छेद तत्र च । ऋजूच्चस्तम्भवत् सोऽदिरनारोह्यस्ततोऽभवत् ॥ ६३५॥ नृपो नृभिरलङ्घयानि, योजनान्तरितानि च । पदानि मेखलारूपाण्यष्टौ तं परितो व्यधात् ॥ ६३६ ।। ततःप्रभृति शैलोऽसौ, नाम्नाष्टापद इत्यभूत् । लोके हराद्रिः कैलासः, स्फटिकाद्रिश्च कीर्यते ॥६३७॥ इति चैत्यं विनिर्माप्य, प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्राविशन्मेघ इवोडुपः ॥ ६३८॥ १ यमुनया। २ आज्ञासमनन्तरम् । ३ चक्री। शशी। अष्टापदोपरि भरतकारितः सिंहनिषद्याजिनप्रासाद Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy