________________
देवच्छन्देऽभवन् रत्नप्रतिमास्तत्र निर्मलाः । ऋषभखामिमुख्यानां, चतुर्विंशतिरर्हताम् ॥ ५९५ ॥ प्रतिमाः स्वस्वसंस्थानमानवर्णधरास्तु ताः । साक्षादिव खामिनोऽभान, शैलेशीध्यानवर्तिनः ॥ ५९६ ॥ तत्र पोडश सौवण्र्यो, राजावर्त्तकृते उभे । द्वे स्फाटिक्यौ द्वे वैडूर्यमय्यौ शोणाश्मजे उभे ॥ ५९७ ॥ तासां चाहत्प्रतिमानां, सर्वासामपि जज्ञिरे । लोहिताक्षप्रतिसेका, अङ्करत्नमया नखाः ॥५९८॥ नाभीकेशान्तभूजिह्वातालुश्रीवत्सचूचुकम् । तलानि हस्तपादस्य, तोपनीयानि जज्ञिरे ॥ ५९९ ॥ पक्ष्माणि ताराः श्मश्रूणि, ध्रुवो रोमाणि मूर्द्धजाः । रिष्टरत्नमयान्यासन् , वैद्रुमा दन्तवाससः॥६००॥ दन्ताश्च स्फटिकमयाः, शीर्षघट्यस्तु वज्रजाः । नासाश्चाऽन्तलोहिताक्षप्रतिसेकाः सुवर्णजाः ॥६०१॥ लोहिताक्षप्रतिसेकप्रान्ता अङ्ककृता दृशः । इत्यनेकमणीमय्यः, प्रतिमास्ताश्चकाशिरे ॥६०२॥ तासां च पृष्ठे प्रत्येकमेकैका रत्ननिर्मिता । छत्रधारप्रतिमा च, यथावन्मानशालिनी ॥६०३॥ मुक्ताप्रवालजालाङ्क, सकुरण्टकदामकम् । श्वेतातपत्रं स्फटिकमणिदण्डं दधत्यभूत् ॥ ६०४॥ [ युग्मम् ] प्रत्येकं पार्श्वयोस्तासामुत्क्षिप्तमणिचामरे । चामरधारप्रतिमे, रत्नमय्यौ बभूवतुः ॥६०५॥ नौगयक्षभूतकुण्डधाराणां प्रतिमे उभे । प्रत्येकमग्रे भगवत्प्रतिमानां बभूवतुः ॥ ६०६ ॥ ताः कृताञ्जलयो रत्नमय्यः सर्वाङ्गमुज्ज्वलाः । निषेदिवांसः प्रत्यक्षा, इव नागादयो बभुः॥६०७॥ देवच्छन्दे रत्नघण्टाश्चतुर्विंशतिरुज्वलाः । सङ्क्षिप्तादित्यबिम्बाभास्तथा माणिक्यदर्पणाः ॥६०८॥ स्थानस्थदीपिका हैम्न्यस्तथा रत्नकरण्डकाः । पुष्पचङ्गेरिकाश्चङ्गाः, सरिदावर्त्तवर्तुलाः ॥ ६०९॥
१ राजावतख्यरत्रविशेषकृते । २ लोहिताक्षमणिरसच्छटाः। ३ अङ्काख्यरत्रविशेषमयाः । ४ स्तनाग्रभागः। ५ सौवर्णानि । ६ रिष्याख्यरत्नविशेषमयानि । ७ ओष्ठाः। ८ द्वे नागप्रतिमे, द्वे यक्षप्रतिमे, द्वे भूतप्रतिमे, वे कुडधारप्रतिमे च ।
Jain Education in
For Private & Personal use only
www.jainelibrary.org