SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ALESSISSESESSOARA इन्द्राः स्वस्खविमानेषु, सुधर्मायां च पर्षदि । अधिमाणवकस्तम्भ, वृत्तवज्रसमुद्के ।। ५६४ ॥ न्यवेशयन् खामिदंष्ट्रा, आनर्चुश्च निरन्तरम् । तासां प्रभावात् तेषां च, सदा विजयमङ्गले ॥ ५६५॥ भरतस्तत्र च स्वामिसंस्कारासन्नभूतले । प्रासादं योजनायाम, त्रिगव्यूतसमुच्छ्रयम् ॥ ५६६ ॥ नामतः सिंहनिषद्यां, पद्यां निर्वाणवेश्मनः । उच्चैर्वर्द्धकिरत्नेन, रत्नाश्मभिरकारयत् ॥ ५६७ ॥ तस्य द्वाराणि चत्वारि, स्फटिकाश्ममयानि च । रम्याणि स्वामिसमवसरणस्येव जज्ञिरे ॥५६८॥ प्रतिद्वारमुभयतो, बभूवुस्तत्र षोडश । रत्नचन्दनकलसाः, कोशा इव शिवश्रियाम् ॥ ५६९॥ द्वारे द्वारे रत्नमयास्तोरणाः षोडशाऽभवन् । साक्षादिव समुद्भूताः, परितः पुण्यवल्लयः ॥ ५७० ॥ द्वारे द्वारेऽष्टमङ्गल्यो, मङ्गल्याः षोडशाऽभवन् । प्रासादद्वारविन्यस्तप्रशस्तिलिपिसन्निभाः ॥ ५७१॥ द्वारेषु तेषु चाऽभूवन , विशाला मुखमण्डपाः । दिक्पालानां चतुर्णामप्याहृता इव पर्षदः॥ ५७२ ॥ तेषां चतुर्णा च मुखमण्डपानां पुरोऽभवन् । श्रीवल्लीनां मण्डपान्तः, प्रेक्षासदनमण्डपाः ॥ ५७३ ।। तेषां प्रेक्षामण्डपानां, मध्यभागेषु जज्ञिरे । अक्षवाटा वज्रमयाः, सूर्यबिम्बोपहासिनः ॥ ५७४ ॥ अक्षवाटेऽक्षवाटे च, मध्यभागे मनोहरम् । रत्नसिंहासनमभून्मध्येऽब्जमिव कर्णिका ॥ ५७५ ॥ प्रतिप्रेक्षामण्डपा, बभूव मणिपीठिका । चैत्यस्तूपास्तदुपरि, चाऽभवन् रत्नशालिनः ॥ ५७६ ॥ तेषां च चैत्यस्तूपानां, पुरतो घोतिताम्बरा । प्रत्येकं च प्रतिदिशं, महती मणिपीठिका ॥ ५७७॥ प्रत्येकं तदुपरिष्टात् , पञ्चधन्वशतप्रमाः। चैत्यस्तूपसन्मुखीनाः, सर्वाङ्गं रत्ननिर्मिताः ॥ ५७८ ।। ऋषभा वर्तमानाच, ततश्चन्द्राननापि च । वारिषेणेति पर्यङ्कासनासीना मनोहराः॥ ५७९ ॥ अष्टापदोपरि भरतकारितः सिंहनिषद्याजिनमालाम त्रिषष्टि. २९ Jain Education Internation For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy