________________
DEHomerometerocroSDHOOT
O DEGOREDITODoramoनग्न
BOLOLOLOLOLOMOTOROLOOG TONTONOLIOPOOOLTO COLOD
विंशतितमायां शताब्द्यां संविनशाखायामाद्यमाचार्यपदमलञ्चक्रुः । खीयातुलमनीषया धर्मतत्त्वावबोधकान्यनेकप्रौढग्रन्थरत्नानि विरच्य जनसमाजोपरि भूयानकार्युपकार । न च केवलं भारते वर्षे भवदुज्वलकीर्तिलता सपल्लविताऽवर्धिष्ट, किञ्चामेरिकादिपाश्चात्यप्रदेशेष्वपि तादृश्येव । नानृणीभवितुमर्हति जैनसमाजो भवतामप्रतिहततेजसा, सदुपदेशेन, प्रभावेण, बहूपकारैश्च । ____ पूज्यचरणारविन्दानां श्रीमतां प्रौढगुणराज्या मुग्धीभूतपञ्जाबप्रमुखविविधदेशीयजैनसङ्घसमुत्साहेन भवत्पट्टधराचार्यश्रीविजयवल्लभसूरीश्वरस्याध्यक्षतायां भवदीयशतवार्षिकजन्मशताब्द्याः पञ्चातिको महोत्सवो वटपद्रे (बडौदा)श्रीमन्तसरकारसयाजीरावगायकवाडराजधान्यामस्मिन्नेव वि० सं० १९९२ तमे वत्सरे चैत्रमासे महता समारोहेण समजनि । तन्माङ्गलिकप्रसङ्गे भवद्गुणगणाकृष्टोऽहं कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाका पुरुषचरितमहाकाव्यस्य पाठान्तरादिभिः समलङ्कृतमिदं प्रथमपर्वपुष्पं यशःशरीरेण विद्यमानायामरात्मने भवते भक्त्या सविनयं बहुमानपुरस्सरं समर्प्य कृतकृत्यो भवामीति ।
भवदीयपट्टधरप्रशिष्यपरमाणुः
चरणः।
30GOROSGeomoooooROHOREOGORSCOHOROLAGa0300DSSD
in Education International
For Private & Personal use only
www.jainelibrary.org