SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ NROLORMALASARAS तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्याः पुरुषार्थसिद्धेः काप्यदर्शनात्, न हि दाह|पाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयनसन्धुक्षणज्वालनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि, तस्मात्सर्वत्र ज्ञानक्रियाविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धर्ज्ञाननिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धरित्यनैकान्तिकोऽप्यसाविति, एवं क्रियावादिनाऽपि यद्यत्समनन्तरभावि तत्तत्कारणमित्यादि प्रयोगे यस्तदनन्तरभावित्वलक्षणो हेतुरुक्तः, सोऽप्यसिद्धो| उनैकान्तिकश्च, तथाहि-स्त्रीभक्ष्यभोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तः, तस्मात्केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य काप्यसिद्धरसिद्धो हेतुः, यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकारणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्यति, तस्माद् ज्ञानक्रियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च-"हयं नाणं कियाहीणं, हया | अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमाणो य अंधओ॥१॥ संयोगसिद्धीअ फलं वयंति, न हु एग १ हतं ज्ञानं क्रियाहीनं हता अज्ञानतः क्रिया । पश्यन् पङ्गुर्दग्धो धाव॑श्चान्धः ॥ १॥ संयोगसिद्धया फलं वदन्ति नैवैकचक्रेण रथः प्रयाति । अन्धश्च पङ्गुश्च वने संमेस तौ सम्प्रयुक्तौ नगरं प्रविष्टौ ॥२॥ पहि-स्त्रीभक्ष्यकारणमित्यादि प्रयोग पदसिद्धेरियनैकान्तिकथा पुरुषार्थसिद्धानसर्वत्र ज्ञान Jain Education in For Private & Personel Use Only Mainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy