________________
R
पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते अर्थादापन्नं रात्रौ भुत इति, तत्रार्थापन्नमपि य एतत्साक्षाद् ब्रूयात्तस्य पुनरुक्तता १०, व्याहतं यत्र पूर्वेण परं विहन्यते यथा-कर्म चास्ति फलं चास्ति, कर्ता न
त्वस्ति कर्मणा मित्यादि ११, अयुक्तमनुपपत्तिक्षमं यथा-तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिरित्यादि १२, है क्रमभिन्नं यत्र क्रमो नाराध्यते यथा-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामाः स्पर्शरसगन्धरूपशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि १३, वचनभिन्नं यत्र वचनव्यत्ययो यथा वृक्षाः ऋतौ पुष्पितः इत्यादि १४, विभक्तिभिन्नं यत्र विभक्तिव्यत्ययो यथा वृक्षं पश्य इति वक्तव्ये वृक्षः पश्य इति ब्रूयादित्यादि १५, लिङ्गभिन्नं यत्रलिङ्गव्यत्ययो यथा अयं स्त्रीत्यादि १६, अनभिहितं-स्खसिद्धान्तानुपदिष्टं यथा सप्तमः पदार्थो वैशेषिकस्य,प्रकृतिपुरुषाभ्यधिकंसायस्य, दुःखसमुदायमार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि १७, यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदं, यथार्थ्यापदेऽभिधातव्ये वैतालीयपदमभिध्यादित्यादि १८, यत्र वस्तुखभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत्वभावहीनं, यथा शीतो वह्निः मूर्तिमदाकाशमित्यादि १९, यत्र प्रकृतं मुक्त्वाऽप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते तद्व्यवहितं २०, कालदोषो यत्रातीतादिकालव्यत्ययो यथा रामो वनं प्रविवेशेति वक्तव्ये रामो वनं प्रविशतीत्याह २१, यतिदोषोऽस्थानविरतिः सर्वथाविरतिर्वा २२, छविरलङ्कारविशेषस्तेन शून्यं छविदोषः २३, समयविरुद्धं स्वसिद्धान्तविरुद्धं यथा सायस्यासत् कारणे कार्य, वैशेषिकस्य वा सदिति २४, वचनमात्रं निर्हेतुकं, यथा कश्चिद्यथेच्छया कश्चि
ECROCESSOCTOCADCAST
For Private Personal Use Only
Jan Education in
Migrainelibrary.org