________________
*
*
*
***
अणहिगयाणं अहिगमणट्टाए पयं पएणं वन्नइस्सामि,-संहिया य पदं चेव, पयत्थो पयविग्गहो । चालणा य पसिद्धी अ, छव्विहं विद्धि लक्खणं ॥ १॥ से तं सुत्तप्फासियनिज्जुतिअणुगमे, से तं निज्जुत्तिअणुगमे, से तं अणुगमे ( सू० १५५) आह-ननु यदि यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शिकनियुक्त्या प्रयोजनं, तर्हि किमित्यसावुपोद्घातनियुक्त्यनन्तरमुपन्यस्ता ?, यावता सूत्रानुगमं निर्दिश्य पश्चात्किमिति नोच्यते?, सत्यं, किन्तु नियुक्तिसा-2 म्यात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः । प्रकृतमुच्यते-तत्रास्खलितादिपदानां व्याख्या यथेहैव प्रागद्रव्यावश्यकविचारे कृता तथैव द्रष्टव्या, अयं च सूत्रदोषपरिहारः शेषसूत्रलक्षणस्योपलक्षणं, तचेदम्-"अप्परगंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं, अहि य गुणेहि उववेयं ॥१॥" अस्या व्याख्या-अल्पग्रन्थं च तत् महार्थ चेति समाहारद्वन्द्वः 'उत्पादव्ययध्रौव्ययुक्तं सदित्यादिवत्सूत्रमल्पग्रन्थं महार्थ च भवतीत्यर्थः, यच्च द्वात्रिंशद्दोषविरहितं तत्सूत्रं भवति, के पुनस्ते द्वात्रिंशद्दोषाः ये सूत्रे वर्जनीया:?, उच्यते, “अलियमवघायजणयं निरत्ययमर्वत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरुत्तं वाहयमजुत्तं ॥१॥ कमभि-४ नवयणभिन्नं विभत्तिभिन्नं च लिंगभिन्नं च। अणभिहियमपयमेव य सहावहीणं ववहियं च ॥ २ ॥ कोलजतिच्छविदोसो समयविरुद्धं च वयणमित्तं चैं। अत्थावत्तीदोसो नेओ असमासदोसो यं ॥ ३॥ उव
*
*
*
Jain Education
For Private Personel Use Only
jainelibrary.org