SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो. मलधारीया उपक्रमे नामनि० ॥२५६॥ सन्निहित आत्मा सर्वकालं व्यापारात् क?-संयमे-मूलगुणरूपे नियम-उत्तरगुणसमूहात्मके तपसि-अनशनादौ तस्येत्थंभूतस्य सामायिकं भवतीत्येतत्केवलिभाषितमिति श्लोकार्थः ॥ 'जो समो' इत्यादि, यः समःसर्वत्र मैत्रीभावात्तुल्यः 'सर्वभूतेषु सर्वजीवेषु बसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि केवलिभाषितं, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात्पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद्धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । यत एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यते इति भावं दर्शयन्नाह-'जह मम' गाहा, व्याख्या-यथा मम स्वात्मनि हननादिजनितं दुःखं न प्रियं एवमेव सर्वजीवानां तन्नाभीष्टमिति 'ज्ञात्वा' चेतसि भावयित्वा समस्तानपि जीवान्न हन्ति स्वयं, नाप्यन्यैर्घातयति, चशब्दात् । प्रतश्चान्यान्न समनुजानीत इत्यनेन प्रकारेण सममणतित्ति-सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ समण इति गाथार्थः ॥ तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येकः पर्यायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह–णत्थि य से' गाहा, व्याख्या-नास्ति च से तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वाद् , अनेन भवति समं मनोऽस्येति निरुक्तविधिना समना इत्येषोऽन्योऽपि पर्याय इति गाथार्थः॥ तदेवं पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपणार्थमाह-उरग'गाहा, स श्रमणो भवतीति सर्वत्र संबध्यते, यः कथंभूतो भवतीत्याह-उरगःसर्पस्तत्समः परकृताश्रयनिवासादिति, एवं समशब्दोऽपि सर्वत्र योज्यते, तथा गिरिसमः परीषहोपसर्ग ॥२५६॥ Jain Education Index For Private & Personel Use Only nelong
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy