________________
वृत्तिः
अनुयो० मलधारीया
॥२५२॥
दीवो । दीवसमा आयरिया दिपंति परं च दीवंति ॥ १॥ से तं नोआगमओ भा
उपक्रमे वज्झीणे । से तं भावज्झीणे, से तं अज्झीणे ।
निक्षेपानु० अत्रापि तथैव विचारो यावत 'सव्वागाससेदित्ति सर्वाकाशं-लोकालोकनमाखरूपं तस्य सम्बन्धिनी श्रेणिः प्रदेशापहारतोऽपहियमाणाऽपि न कदाचित् क्षीयते अतो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता चास्याऽऽकाशद्रव्यान्तर्गतत्वादिति । 'से किं तं आगमओ भावज्झीणे?, २ जाणए उवउत्ते' अत्र वृद्धा व्याचक्षते-यस्माचतुर्दशपूर्वविदः आगमोपयुक्तस्यान्तर्मुहर्तमात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्यायास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि पहियन्ते अतो भावाक्षीणतेहावसेया, नोआगमतस्तु भावाक्षीणता शिष्येभ्यः सामायिकादिश्रुतप्रदानेऽपि स्वात्मन्यनाशादिति, एतदेवाह-जह दीवा'गाहा, व्याख्या-यथा दीपाद अवधिभूताद्दीपशतं प्रदीप्यते-प्रवर्तते, स च मूलभूतो दीपः तथापि दीप्यते-तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति, प्रकृते सम्बन्धयन्नाह एवं दीपसमा आचार्या दीप्यन्ते-खयं विवक्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं च-शिष्यवर्ग दीपयन्ति-श्रुतसम्पदं लम्भयन्ति, अत्र च नोआगमतो भावाक्षीणता श्रुतदायकाचार्योपयोगस्यागमत्वाद्वाक्काययोगयोश्चानागमत्वान्नोशब्दस्य मिश्रवचनत्वाद्भावनी-४॥२५२॥ येति वृद्धा व्याचक्षते इति गाथार्थः । अथाऽऽयनिक्षेपं कर्तुमाह
Jain Education
For Private & Personel Use Only
S
inelibrary.org