________________
वर्तन्ते, यथा कटकुड्यदेहलीपट्टादिसमुदायात्मके गृहे स्तम्भो वर्तते आत्मभावे च, तथैव दर्शनादिति, एवं वुसानोदरकपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति, आह-यद्येवमशुद्धं तदा परसमवतारो नास्त्येव, कुण्डादौ
वृत्तानामपि बदरादीनां वात्मनि वृत्तेर्विद्यमानत्वात्, सत्यं, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतो, वस्तुवृत्त्या तु द्विविध एव समवतारः, अत एवाह-अथवा ज्ञशरीरभव्यशरीरव्यतिरिक्तो | द्रव्यसमवतारो द्विविधः प्रज्ञप्तः, तद्यथा-आत्मसमवतारस्तदुभयसमवतारश्च, अशुद्धस्य परसमवतारस्य काप्यसम्भवात्, न हि खात्मन्यवर्तमानस्य वान्ध्ययस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्व चात्मवृत्तिविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितं । 'चउसहिआ आयसमोआरेण मित्यादि सुबोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्व निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायां द्वात्रिंशतिकायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां षोडशिकायां षोडशिकाऽपि द्वात्रिशत्पलमानायामष्टभागिकायाम् अष्टभागिकाऽपि चतुःषष्टिफ्लमानायां चतुर्भागिकायां चतुर्भागिकाऽप्यष्टाविंशत्यधिकशतपलमानायामद्धेमाणिकायां एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति, आत्मसमवतारस्तु सर्वत्र प्रतीत एव । समाप्तो द्रव्यसमवतारः, अथ क्षेत्रसमवतारं बिभणिषुराह-से किं तं खत्तसमोआरे'इत्यादि, इह भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्व लघुप्रमाणस्य यथोत्तरं बृहक्षेत्रे समवतारो भावनीयः,
Jain Education in ULAZU
For Private & Personal Use Only
K
alnelibrary.org