SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ निश्चयस्येहोत्पाद्यमानत्वादिति भावः । द्वितीयभङ्गे पल्योपमसागरोपमाणां योजनप्रमाणपल्यवालाग्रादिकल्पनामात्रेण प्ररूपितत्वादसत्त्वमवसेयम् , उपमानता चैषामेतन्महानारकाद्यायुर्महत्त्वसाधनादिति, तृतीयभने 'परिजूरियपेरंत'मित्यादि गाथा, तत्र वसन्तसमये परिजीर्णपर्यन्तं स्वपरिपाकत एव प्रचलद्वन्तं वृक्षात्पतद्-भ्रश्यत्पत्रं गाथां भणतीति सम्बन्धः, परिणतत्वादेव निक्षीरं वृक्षवियोगादित्वलक्षणव्यसनं प्राप्त कालप्राप्तं-विनाशकालप्राप्तमिति । तामेव गाथामाह-'जह तुम्भे'इत्यादि, वृक्षात्पतता केनचिजीर्णपत्रेण किशलयानाश्रित्योक्तं, किंतद्?, उच्यते-शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयान्यवहितानि भूत्वा, वृक्षात्पतत् मल्लक्षणं पाण्डुपत्रं युष्माकं 'अप्पाहेई' इति कथयति, किं तदित्याह-'जह तुम्भे तह अम्हे'त्ति, यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्शलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा वयमपि पूर्वमास्मेति क्रियाध्याहारः, यथा च परिजीर्णपर्यन्तादिवरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्वबुद्धिः परासमृद्धौतु हेलामतिर्विधेया, अनित्यत्वात्सकलसमृद्धिसम्बन्धानामिति भावः। नन्वलौकिकमिदं यत्पत्राणि परस्परं जल्पन्ति,सत्यमित्याह-नवि अत्थि' गाहा सुगमा, नवरं वृक्षपत्रसमृद्ध्यसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारिकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भूतोऽपि पत्राणामिहालाप उक्त इति भावः, तदेवं 'जह तुम्भे तह अम्हे' इत्यत्र किशलयपत्रावस्थया पाण्डुपत्रावस्था उपमीयते, एवं चोपमानभूतकिशलयपत्रावस्था तत्कालभावि NAGARIKHARASHTRA Jain Education Intedka For Private Personal Use Only unelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy