________________
अनुयो०
वृत्तिः
मलधा
उपक्रमे प्रमाणद्वार
रीया
॥२२०॥
घटादिषु चक्षुर्दर्शनं भवतीति पूर्व विषयस्य भेदेनाभिधानं कृतं,श्रोत्रादीनि तुप्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति, उक्तं च-"पुढे सुणेइ सई रूवं पुण पासई अपुढं तु"इत्यादि। अवधेर्दर्शनमवधिदर्शनम्, अवधिदर्शनिनः-अवधिदर्शनावरणक्षयोपशमसमुद्भतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुनःसर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगताः सङ्ख्येया असङ्ख्येया वा पर्याया विषयेत्वेनोक्ताः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः, उक्तं च-"देवाओ असोज्जे सोज्जे आवि पन्जवे लहइ । दो पजवे दुगुणिए लहइ य एगाउ दवाओ॥१॥” अत्राह-ननु पर्याया |विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्, कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, साधूक्तं, केवलं पर्यायैरपि घटशरावोदश्चनादिभिर्मेदादि सामान्यमेव तथा तथा विशिष्यते न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः सामान्यं गुणीभूतास्तु विशेषा अप्यस्य |विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यासः, केवलं-सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनिन:तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायज्ञानं
॥२२०॥
१ स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव. २ द्रव्येषु असयेयान् सङ्ख्येयान् वापि पर्यवान् लभते । द्वौ पर्यायौ द्विगुणितौ लभते चैकस्मिन् द्रव्ये ॥१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org