________________
अनुयो. मलधारीया
उपक्र
॥१४२॥
X विवक्षितवस्तुधर्मस्य विपरीतो धर्मो विपक्षस्तद्वाचकं पदं विपक्षपदं तनिष्पन्नं किञ्चिन्नाम भवति, यथा वृत्तिः
शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थं शिवा भण्यते, किं सर्वदा?, नेत्याह-नवेसु'इत्यादि, तत्र असते बुद्ध्यादीन् गुणानिति ग्रामः-प्रतीतः, आकरो-लोहाद्युत्पत्तिस्थानं, नगरं-कररहितं, खेदं-धूलीमयप्राकारोपेतं,ाला माधि कर्बट-कुनगरं, मडम्बं-सर्वतो दूरवर्तिसन्निवेशान्तरं, द्रोणमुखं-जलपथस्थलपथोपेतं, पत्तनं-नानादेशागतपण्यस्थानं, तच द्विधा-जलपत्तनं स्थलपत्तनं च, रत्नभूमिरित्यन्ये, आश्रमः-तापसादिस्थानं, सम्बाधः-अतिबहुप्रकारलोकसङ्कीर्णस्थानविशेषः, सन्निवेशो-घोषादिरथवा ग्रामादीनां द्वन्द्व ते च ते सन्निवेशाश्चेत्येवं योज्यते, ततस्तेषु ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापि सा मङ्गलार्थ शिवेत्युच्यते, अन्यदा त्वनियमः, तथा कोऽपि कदाचित्केनापि कारणवशेनाग्निः शीतो विषं मधुरमित्याद्याचष्टे, तथा कल्पपालगृहेषु किलाम्लशब्दे समुच्चारिते सुरा विनश्यति अतोऽनिष्टशब्दपरिहारार्थमम्लं खादूच्यते, तदेवमेतानि शिवादीनि विशेषविषयाणि दर्शितानि, साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह-'जो अलत्तए' इत्यादि, यो रक्तो लाक्षारसेन प्राकृतशैल्या कन्प्रत्ययः, स एव रश्रुतेर्लश्रुत्या अलक्तक उच्यते, तथा यदेव लाति-आदत्ते धरति प्रक्षिप्तं जलादि वस्तु इति निरुक्तेर्लाबु तदेव अलावु तुम्बकमभिधीयते, य एव च सुम्भकः शुभवर्णकारी स एव कुसुम्भकः, 'आलवंतेत्ति आलपन्-अत्यर्थ लपन्नसमञ्जसमिति गम्यते, स किमित्याह-विवलीयभासए'त्ति ॥१४२॥ भाषकादू विपरीतो विपरीतभाषक इति, राजदन्तादिवत् समासः, अभाषक इत्यर्थः, तथा हि सुबहसम्बद्ध
Jain Education International
For Private Personal Use Only
www.jainelibrary.org