________________
अनुयो०
मलधा
रीया
॥ ७२ ॥
Jain Education
संगहस्स आणुपुवी दव्वाई कयरंमि भावे होजा ?, नियमा साइपारिणामिए भावे होजा, एवं दोन्निव । अप्पाबहुं नत्थि । से तं अणुगमे, से तं संगहस्स अणोव• णिहिया दव्वाणुपुव्वी, से तं अणोवणिहिया दव्वाणुपुव्वी (सू० ९५ )
अत्रोत्तरम् —'अणुगमे अट्ठविहे पन्नत्ते' इति पूर्व नवविध उक्तोऽत्र त्वष्टविध एव, अल्पबहुत्वद्वाराभा| वात्, तदेवाष्टविधत्वं दर्शयति - तद्यथेत्युपदर्शनार्थः, 'संतपय' गाहा, इयं पूर्व व्याख्यातैव, नवरं 'अप्पा बहुं नत्थि' संग्रहस्य सामान्यवादित्वात् सामान्यस्य च सर्वत्रैकत्वादल्पबहुत्वविचारोऽत्र न संभवतीत्यर्थः । तत्र सत्पदप्ररूपणताभिधानार्थमाह - 'संगहस्से' त्यादि, ननु संग्रहविचारे प्रक्रान्ते आनुपूर्वीद्रव्याणि सन्तीत्यनुपपन्नम्, आनुपूर्वीसामान्यस्यैवैकस्य तेनास्तित्वाभ्युपगमात् सत्यं, मुख्यरूपतया सामान्यमेवास्ति, गुणभूतं च व्यवहारमात्रनिबन्धनं द्रव्यबाहुल्यमप्यसौ वदतीत्यदोषः शेषभावना पूर्ववदिति । द्रव्यप्रमाणद्वारे यदुक्तं 'नियमा एगो रासि'त्ति, अत्राह - ननु यदि सङ्ख्येयादिखरूपाणि एतानि न भवन्ति तोंको राशिरित्यपि नोपपद्यते, द्रव्यबाहुल्ये सति तस्योपपद्यमानत्वाद्, व्रीह्यादिराशिषु तथैव दर्शनात्, सत्यं, किन्त्वेको राशि - रिति वदतः कोऽभिप्रायः ?, बहूनामपि तेषामानुपूर्वीत्वसामान्येनैकेन क्रोडीकृतत्वादेकत्वमेव, किं च यथा विशिष्टैक परिणामपरिणते स्कन्धे तदारम्भकावयवानां बाहुल्येऽप्येकतैव मुख्या, तद्वदत्राऽऽनुपूर्वीद्रव्यबाहुल्येऽपि
For Private & Personal Use Only
वृत्तिः
उपक्र
माधि०
॥ ७२ ॥
jainelibrary.org