SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अनुयो० वृत्तिः उपक्रमाधि० रीया ॥५८॥ 'तिपएसिए आणुपुव्वी'त्ति त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, त्रिप्रदेशिकस्कन्धलक्षणेनार्थेनानुपूर्वीति भङ्गको निष्पद्यत इत्यर्थः, एवं परमाणुपुद्गललक्षणोऽर्थोऽनानुपूर्वीत्युच्यते, द्विप्रदेशिकस्कन्धलक्षणः अर्थोऽवक्तव्यकमुच्यते, एवं बहवस्त्रिप्रदेशिका आनुपूर्व्यः बहवः परमाणुपुद्गला अनानुपूर्यो बहवो द्विप्रदेशिकस्कन्धा अवक्तव्यकानीति षण्णां प्रत्येकभङ्गानामर्थकथनम् । एवं दिकसंयोगेऽपि त्रिप्रदेशिकस्कन्धः परमाणुपुद्गलश्चाऽऽनुपूर्व्यनानुपूर्वीत्वेनोच्यते, यदा त्रिप्रदेशिकस्कन्धः परमाणुपुद्गलश्च प्रतिपादयितुमभीष्टो भवति तदा 'अस्थि आणुपुब्बी अ अणाणुपुवी अंइत्येवं भङ्गो निष्पद्यत इत्यर्थः, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनीयाः । अत्राह-नन्वर्थोऽप्यानुपूर्व्यादिपदानां त्र्यणुकस्कन्धादिकोऽर्थपदप्ररूपणतालक्षणे प्रथमद्वारे कथित एव तत्किमनेन ?, सत्यं, किन्तु तत्र पदार्थमात्रमुक्तम् , अत्र तु तेषामेवाऽऽनुपूादिपदानां भङ्गकरचनासमादिष्टानामर्थः कथ्यत इत्यदोषो, नयमतवैचित्र्यप्रदर्शनार्थ वा पुनरित्थमर्थोपदर्शनमित्यलं विस्तरेण । 'से तमित्यादि निगमनम् ॥ ७८ ॥ उक्ता भङ्गोपदर्शनता, अथ समवतारं बिभणिषुराह से किं तं समोआरे ?, २ नेगमववहाराणं आणुपुत्वीदव्वाइं कहिं समोअरंति ?, किं आणुपुत्वीदव्वेहिं समोअरंति ? अणाणुपुत्वीदव्वेहिं समोअरंति ? अवत्तव्वयदव्वेहिं समोअरंति ?, नेगमववहाराणं आणुपुवीदव्वाइं आणुपुब्बीदव्वेहिं समोअरंति नो ॥ ५८॥ Jan Education For Private Personal Use Only inelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy