________________
वृत्तिः
अनुयो मलधारीया
अनुयो० अधिक
॥
४॥
विनेय 'इच्छामी'ति भणित्वा वन्दनकं ददाति २, तत उत्थितो ब्रवीति 'संदिशत किं भणामी ति, ततो गुरुवदति-'वन्दित्वा प्रवेदये ति, ततो विनेय 'इच्छामी'ति भणित्वा वन्दनकं ददाति ३, ततः पुनरुत्थितः प्रतिपादयति-'भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुः प्रत्युत्तरयति-'योगं कुर्वि'ति, एवं सन्दिष्टो विनेय 'इच्छामी'ति भणित्वा वन्दनकं दाति, ततोऽत्रान्तरे नमस्कारमुच्चारयन्नसौ गुरुं प्रदक्षिणयति, तदन्ते च गुरोः पुरतः स्थित्वा पुनर्वदति-भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्तिं ततो गुरुराह -'योगं कुबि'ति, एवं संदिष्ट इच्छामीति भणित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदक्षिणयति, तदन्ते च पुनस्तथैव गुरुशिष्ययोर्वचनप्रतिवचने, तथैव च तृतीयप्रदक्षिणां विद्धाति विनेयः, एतानि च चतुर्थवन्दनकादीनि त्रीण्यपि वन्दनकान्येकमेव चतुर्थ गण्यते, एकार्थप्रतिबद्धत्वादिति ४, ततस्तृतीयप्रदक्षिणान्ते गुरुनिषीदति, निषण्णस्य च गुरोः पुरतोवनतगात्रो विनेयो वक्ति-युष्माकं प्रवेदितं, संदिशत साधूनां प्रवेद
यामि ततो गुरुराह-प्रवेदये ति, तत इच्छामीति भणित्वा विनेयो वन्दनकं ददाति ५, प्रत्युत्थितश्चोचाहरितपश्चपरमेष्ठिनमस्कारः पुनर्वन्दनकं ददाति ६, पुनरुत्थितो वदति-युष्माकं प्रवेदितं साधूनां च तत् प्रवे-3
दितं, सन्दिशत करोमि कायोत्सर्ग ततो गुरुरनुजानीते-'कुविति, ततः पुनरपि वन्दनकं ददाति ७, एतानि सप्त थो(छो)भवन्दनकानि श्रुतप्रत्ययानि भवन्ति, ततः प्रत्युत्थितोऽभिधत्ते–'अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यत्रोच्छ्रसितादित्यादि यावथुत्सृजामीति' ततः कायोत्सर्गस्थितः सप्तविंशतिमुच्छ्रासां
॥४॥
Jain Educat
For Private
Personal Use Only
w.iainelibrary.org