SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सर्वेऽपि षडविंशतिरेव, एते चोत्तरं प्रयच्छता अनेनैव क्रमेण सूत्रेऽपि लिखिताः सन्तीति भावनीयाः । अथ किमर्थं भङ्गकसमुत्कीर्तनं क्रियत इति चेद, उच्यते, इहानुपूर्व्यादिभिस्त्रिभिः पदैरेकवचनान्तबहुवचनान्तैः प्रत्येकचिन्तया संयोगचिन्तया च षड्विंशतिर्भङ्गाः संजायन्ते, तेषु च मध्ये येन केनचिद्भङ्गेन वक्ता द्रव्यं वक्तुमिच्छति तेन प्रतिपादयितुं सर्वानपि प्रतिपादनप्रकाराननेकरूपत्वान्नैगमव्यवहारनयाविच्छत इति प्रदपार्शनार्थ भङ्गकसमुत्कीर्तनमिति । 'से तमित्यादि निगमनम् ॥ ७६ ॥ उक्ता भङ्गसमुत्कीर्तनता, अथ भङ्गो-1 पदर्शनतां प्रतिपिपादयिषुराह एआए णं नेगमववहाराणं भंगसमुकित्तणयाए किं पओअणं?, एआए णं नेगमववहा राणं भंगसमुकित्तणयाए भंगोवदंसणया कीरइ सू० (७७) 'एतया' भङ्गसमुत्कीर्तनतया किं प्रयोजनमिति, अनोत्तरमाह-एआए ण'मित्यादि, 'एतया' भङ्गसमुकीर्तनतया भङ्गोपदर्शनता क्रियते, इदमुक्तं भवति-भङ्गसमुत्कीर्तनतायां भङ्गकसूत्रमुक्तं, भङ्गोपदर्शनतायां तस्यैव वाच्यं त्र्यणुकस्कन्धादिकं कथयिष्यते । तच्च सूत्रे समुत्कीर्तित एव कथयितुं शक्यते, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वाद् , अतो युक्तं भङ्गकसमुत्कीर्तनतायां भङ्गोपदर्शनताप्रयोजनम् । अत्राऽऽहननु भङ्गोपदर्शनतायां वाच्यस्य व्यणुकस्कन्धादेः कथनकाले आनुपूर्व्यादिसूत्रं पुनरप्युत्कीर्तयिष्यति, तत् १ उत्कर्षयिष्यति प्र. JainEducation inER For Private Personel Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy