________________
DOOOOGாகாருருருருகன்
विशुद्ध्या, (मनसो निर्मलत्वं) ताश्च सकलकर्मप्रकृतिनिष्यन्दभूतकृष्णादिद्रव्यसाचिव्यादात्मनोऽशुद्धतमाशुद्धतराशुद्धशु
शुद्धतरशुद्धतमपरिणामरूपाः, भावनाहेतुकनिर्ममत्वहेतुकसाम्यहेतुकरागद्वेषजयेन वा मनसो विशुद्धिरित्येव परिपाटी । तदेवमनया दिशा लब्धाधिकारस्यात्मनः क्रियापरं नामादित्रयमतिशयानं भावाध्यात्म भण्यते । कीदृशी सा किया? दर्शनज्ञानचरणाढ्या श्रद्धानबोधानाश्रवतारूपभेदान्मिथ:(थोऽ)तद्भावमात्रण व्यवस्थितापि वस्तुगत्यात्मन्यात्मनात्मतत्त्वसंवेदनरूपैकवस्तुतया प्रत्यस्तमितपृथग्भावाकादिभाविकीरितात्मस्वरूप एव निविशमानं श्रुतनोश्रुतादिविभागाभावादेकरूपीकृतं गुणकरणाख्यक्रियाभावमनुसरतीतियावत् ॥३॥ ननु परद्रव्यसङ्गे शुद्धोपयोगरूपात्माधिकारो न सम्भवति अशुद्धोपयोगरूपशुद्धोपयोगच्छेदायतनत्वात्तस्य, सति च तत्र स्वद्रव्यप्रतिबन्धरूपश्रामण्यपरिपूर्णायतनासंभवात्तथा च कथमेतावत्युपधिसम्बन्धे सिताम्बराणामध्यात्मसम्भावनेति विवक्षया स्फुरितोत्तराधरमन्तरैवोपस्थितं दिगम्बरमुवीक्ष्य धर्मानुरोधिनः परद्रव्यस्याध्यात्माविरोधितां समाधत्तेण विणा रागदोसे अज्झप्पस्सेह किंचि पडिकूलं । परदवं उवगरणं किं पुण देहुब धम्म ॥ ४॥ | न विना रागद्वेषौ अध्यात्मन इह किञ्चित्प्रतिकूलम् । परद्रव्यमुपकरणं किं पुनर्देह इव धर्मार्थम् ।। ४॥ ___ यत्खलु धर्मोपकरणस्यापि परद्रव्यतया श्रामण्यविरोधितामाचक्षते क्षपर्णकास्तत्रेदं पर्यनुयुज्महे-किं स्वरूपत एव तस्य शुद्धोपयोगिविरोधित्वं रागद्वेषद्वारा वा ? आद्येऽतिप्रसङ्गो, द्वितीये तु धर्मसाधनतया धर्मार्थमुपादीयमानस्य तस्य
१ सहायिनः २ दिगम्बराः
000000000000000000000000
Jain Education
For Private & Personal Use Only
Irww.jainelibrary.org