SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ छ छ अध्यात्म छ 000000000000000000000 अध्यात्म किल चतुर्विधं नामस्थापनाद्रव्यभावभेदात्, तत्र नामादिचतुष्टयस्वरूपं द्रव्यालोकादवसेयं, तथा च विशेष- परीक्षावृ. णभेदात् तद्विशिष्टा आध्यात्मिका अपि चतुर्विधास्तत्रेमे अधिकृता आध्यात्मिका वाराणसीदासं पुरस्कृत्य प्रवर्त्तमाना इन्द्रादिसज्ञामिव गोपालबाला यादृच्छिकीमयथार्थामाध्यात्मिकसञ्ज्ञां बिधाणा न नाममात्रेणैवाभिमन्तुमर्हति,तथा-1 चाध्यात्मिकंमन्यानां परेषामेवाशङ्कानिरासायात्र प्रवृत्तिरिति न किञ्चिदनुपपन्नम् ॥२॥ ये पुनरिदमाकर्ण्य सकर्णा उत्कणोः पारमार्थिकमध्यात्मस्वरूपं श्रोतुमुत्सहन्ते तत्प्रमोदार्थमिदमभिधीयतेजा खल सहावसिद्धा किरिआ अप्पाणमेव अहिगिच्च । भणइ परमज्झप्पं सा दंसणणाणचरणहा ॥३॥ या खलु स्वभावसिद्धा क्रियात्मानमेवाधिकृत्य । भवतीतिशेषः ।। भण्यते परमध्यात्म सा दर्शनज्ञानचरणाढ्या ।। ३ ।। । इह खल्वनादिकालं कर्मभिरावेष्टितपरिवेष्टितो जन्तुः कषायविषयव्यापारकुण्ठितशक्तिकतया न स्वयमधिकुरुते | काजूचनोपल इव मलद्रव्यमलीमस इति । ततश्च तावन्तं कालमस्य न स्वभावसिद्धा क्रिया, यदा पुनरसौ कषायेन्द्रियविजयाय प्रक्रममाणः स्वयमधिकुरुते तदा चास्य तीव्रानलापनीतमलस्य काञ्चनस्येवात्मानमधिकृत्यैव प्रादुर्भवन्ती स्वभाव-16 सिद्धा क्रिया समुज्जम्भते स्वान्तर्भविष्णुभिरेव कालादिभिरुपनीयत इतियावद,एतेन केवलस्वभाववादः परास्तः। कः पुनर-10 स्याधिकार इति चेत् ?क्षान्तिमार्दवार्जवानीहासु क्रोधमानमायालोभविजयोपायेषु प्रवृत्तिरिति गृहाण।क्षान्त्यादयश्च क्रोधा- ॥१॥ कादिप्रतिपक्षा जीवपरिणामा एवेति न क्रोधाभावादिरूपतया तेषां कश्चन दोष उद्भावनीयः। कषायविजये चेद्रियविज-16 योऽपि हेतुः समकालभाविनोरपि तयोः प्रदीपप्रकाशयोरिव हेतुहेतुमद्भावात् , इन्द्रियविजयश्च मनःशुद्ध्या, सा च लेश्या-16 छ in Eduentan medias For Private & Personal use only www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy