SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आ०प्र० राचार्यस्योपाध्यायस्य वाऽनवस्थाप्यं प्रायश्चित्तं, तत्पतिपता हि गणाद् बहिष्कृतोऽपि गगेन सह विहरति,साधुभिस्सहालापतपआचारे. मण्डलीसंघाटकमिलनभक्तपानग्रहणादि किमपि न करोति, एकस्यामेव वसतौ साध्वनाक्रान्तप्रदेशे तिष्ठति, शैक्षादीनपि ॥ ८७॥ वंदते, ग्रीष्मे चतुर्थषष्ठाष्टमानि शिशिरै षष्ठाष्टादशमानि वर्षास्वष्टमदशमद्वादशानि जघन्यमध्यमोत्कृष्टानि पारणके च निलैंप भक्तमित्येवंरूपं जघन्यतः षण्मासीमुत्कर्षतो द्वादशवर्षी यावत्करोति ततो . महाव्रतेषु स्थाप्यते इति भावः, इदश्चाचार्योपाध्याययोरेव, अन्यस्य त्वेतदोषापत्तावपि मूलमेव ९ । जिनजिनप्रवचनाद्याशात नातः स्वलिगिनीनृपपल्यादिसेविनो मुनिनृपवधकादेवाचार्यस्यैव पाराश्चिक, तच्च गणाहहिष्कृतस्याईयोजनमितक्षेत्रान्तरविहारिणो जिनकल्पिकपतिरूपतया महास त्वस्य गुरुक्रियमाणतप्तेरनवस्थाप्यवत्तपःकरणादिरूपं ज्ञेयं १०॥ एतेषु पुलाकस्याद्यानि षट् प्रायश्चित्तानि, बकुशपति12 सेवनाकुशीलयोः स्थविरकल्पे दशापि, जिनकल्पे यथालन्दकल्पे चाष्ट, निग्रन्थस्यालोचनाविवेकरूपे द्वे, स्नातकस्यैको विवेकः, सामायिकसंयमवतां स्थविरकल्पे छेदमूलरहितान्यष्ट, जिनकल्पे तु षट् , छेदोपस्थापनीयानां स्थविरकल्पे दशापि, जिनकल्पे त्वष्ट, परिहारविशुद्धिमतां स्थविरकल्पे अष्ट, जिनकरपे तु षट् , मूक्ष्मपराये आलोचनाविवेकरूपे द्वे इति श्रीव्यवहारदशमोद्देशकवृत्तौ ।। एषु चान्त्ये द्वे प्रायश्चित्ते चतुर्दशपूर्विभिः सह व्यवच्छिन्ने, शेषाणि त्वष्टौ दुष्पसहान्तं यावद् बोद्धव्यानि । बाह्यतपोभेदेभ्यश्च प्रायश्चित्तस्य विशिष्य कर्मक्षयहेतुत्वेनान्तरङ्गतस्तपस्त्वं प्रतिपत्तव्यं, गुरोः पुरो ह्यालोचितस्वातिचारस्य स्वल्पेनापि तपसा शुद्धिरागमे प्रतिपाद्यते, अनालोचितातिचारस्य तु न भूयसापि तपसा, श्रूयन्ते चात्र दृष्टान्ता लक्षणार्यादयः, इति प्रायश्चित्तं १॥ विनयश्चतुर्धा-ज्ञानदर्शनचारित्रोपचारभेदात् , तत्र सबहुमान ज्ञानग्रहणाभ्यासस्मरणादि नविनयः, सामायिकादिके दवविध प्रायश्चित्तं॥ ॥८७॥ Jain Education Inte For Privale & Personal use only Law.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy