________________
आ० प्र० सपआचारे. ॥८६॥
एवं च सलीनतायाश्चातुर्वियं, यदाहुमहर्षयः-"इंदिय १ कसाय २ जोगे ३ पडुच्च संळीणया मुणेअव्वा । तय विवित्ता चरिआ ४ पणता वीअरागेहिं ॥१॥" तत्र श्रोत्रादिभिरिन्द्रियैः शन्दादिषु मुंदरैतरेषु रागद्वेषाकरणमिन्द्रियसलीनता, उक्तं च -“सद्देसु अ भयपावएस,सोअविसयमुक्गएसुं । तुटेण व रुटेण व समणेण सया न होअव्व।।१।।” एवं शेषेन्द्रियेष्वपि वक्तव्यं, यथा ' स्वेसु अ भद्दयपाद एसु चढविसयमुवगएम' इत्याद्यभिलापेन । कषायसंलीनता कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फलीकरणेन विज्ञेया, यदवोचन्- "उदयस्सेव निरोहो :उदयस्पत्ताण वाऽफळीकरणं । जं इत्थ कसायाणं कसायसलीणया एसा ॥२॥"योगसंलीनता पुनर्मनोवाकायलक्षणयोगानामकुशलानां निरोधः कुशलानामुदीरणं च,यदभ्यधु:-"अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कमि अ विहिगमण जोगे संलीणया भणिआ ॥१॥" विविक्तचर्या तु विविक्तशयनाशनतैवानन्तरव्याख्याता । चतुर्विधाऽप्यसौ गजमुकुमालादिमहर्षिवत्पौषधिकसुदर्शनश्रेष्ठयादिश्राद्धवच्च ka पालनीया इति संलीनता ६॥ एवं पविध बाह्य तपः, बाह्यत्वं चास्याहारादिबाह्यद्रव्यापेक्षत्वात्सायो बहिर्देहस्य तापकत्वाल्लौकिकैरपि तपरतया ज्ञायमानत्वात्कुतीथिकैरपि स्वाभिमायेणासेव्यमानत्वाच ॥
अथाभ्यन्तरं तपः-तत्र प्रायश्चित्तमतीचारविशुद्धिहेतुः यथाऽवस्थितं मायो-बाहुल्येन चित्तमस्मिन्नितिकृत्वा,तचालोचनादि दशविधं, यदार्षम् - "आलोअण १ पडिकमणे २ मीस ३ विवेगे ४ तहा विउस्सग्गे ५। तव ६ छेअ ७ मूल ८ अणवहिए ९ अपारंचिए १० चेव ॥१॥" तत्रालोचना गुरोः पुरतः स्वापराधस्य प्रकटनं, कचित्तावन्मात्रेणैव शुद्धिः, यथाऽवश्यकृत्ये अभ्यन्तरं हस्तशतात्परतो गमनागमनादौ सम्यगुपयुक्तस्य निरतिचारस्य यतेः, सातिचारस्य तूपरितनप्रायश्चित्तसंभवात् , आह-यतेरव तपः॥ श्यकृत्ये गमनागमनादौ निरतिचारस्यालोचनं विनाऽपि कथं न शुद्धिः ? यथासूत्र प्रवृः, सत्य, परं याः चेष्टानिमित्ताः मू
यह पहर64646464664466. राम रहा
Jain Education Interational
For Privale & Personal Use Only
www.jainelibrary.org