SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ चाधीष्ये दर्शनं वा निर्मलीकरिष्ये दर्शनरिथरीकारिशास्वैरिति विचिन्त्य हन्तीत्यादि,एवं ज्ञानस्य प्राधान्यविवक्षातो ज्ञाननिमित्तत्वं, दर्शनस्य प्राधान्यविवक्षातो दर्शननिमित्तत्वं च भाव्यमिति। नवतिलिभिगुणिता जाते द्वे शते सप्तत्यधिके कोटीनामिति पिण्डनियुक्ति वृत्तौ । नन्वाधाकर्मिक द्रुमस्य छायाऽऽध कर्मिकी स्यात् नवेत्यत्राह-छायंपि विवजिति केई फलहेउगाइवुत्तस्स । तं तु न जुज्जइ जम्हा फलंपि कप्पइ बिइअभंगे ॥१॥ इह फलहेतुकादेः-फलहेतोः पुष्पहेतोरन्यस्माद्वा हेतोः साध्वर्थमुप्तस्य वृक्षस्य केचिदगीतार्था.छायामप्याधाक मिकक्ष सम्बन्धिनीतिकृत्वा विवर्जयन्ति, तच्च न युक्तं, यस्मात्फलमपि यदर्थं स वृक्ष | आरोपितरतदाघाकर्मिकक्षसम्बन्धि द्वितीये भने तस्य कृतमन्यार्थ निष्टितमित्येवंरूपे कल्पते, अयं भावः-साध्वर्थमारोपितेऽपि कदलयादौ रक्षे यदा फलं निष्पद्यमानं साधुसत्ताया अपनीय आत्मसत्तासंबंधि करोति त्रोटयति च तदा तदपि कल्पते,किं पुनश्छाया?,सा हि सर्वथान साधुसत्तासम्बन्धिनी विवक्षिता,नहि साधुच्छायानिमित्तं स वृक्ष आरोपितः,न च सा छाया केवलं वृक्षमात्रनिमित्ता, किन्तु सूर्यनिमित्तापि, छाया हि नाम पार्थतः सर्वत्रातपपरिवेष्टितप्रतिनियतदेशवर्ती श्यामपुद्गलात्मक आतपाभावः,इत्यम्भू ताच सा छाया सूर्यस्यैवान्वयव्यतिरेकावनुविधत्ते न दृमस्य,ट्टमस्तु केवलं तस्या निमित्तं, न चैतावता सा दुष्यति, छायापुद्गलानां दुमदलेल्यो भिनत्वात ,ततो द्रम एवाधार्मिकः, तसंसृष्टाश्चाधः कतिपयप्रदेशाः पूतिरिति ज्ञेयं । किञ्च-छायाया आधा कर्मिकत्वे प्रातः सन्ध्यायां चातिद्राधीयस्या छायया संश्लिष्ट सर्वमपि ग्रामसम्बन्धि वसत्यादिकं पूतिः स्यात्, नचैतदागमेऽस्ति, 2 तनाधाकम्मिकी छायेति पिण्डनियुत्ति मवृत्योः। अत्रौधिकोपधिजिनकल्पिकादीनामेवमुक्तः-पत् १ पत्ताबंधो २ पायट्ठवणं च ३ पायकेसरिआ ४ । एटलाई ५ रयत्ताणं च ६गुच्छओ७ पायनिजोगो ॥१॥ तिन्नेव य पच्छागा १० रयहरणं चेव ११ होइ मुहपुत्ती १२। एसो दुवालसविहो उवही जिणकप्पिआणं तु ॥२॥ एए व दुवालस मत्तय १३ अइरेग चोलपट्टो Jain Education national For Private & Personal Use Only www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy