________________
अध्यात्म
सार:
॥४२४||
टी. कीदृशोऽयमात्मा =अयमात्मा, सत्योऽस्ति-कालत्रयाऽवच्छेदेनास्तित्ववानत एव सत्योनित्योऽस्ति पु. की. आ. इति चेच्चिद्रपोऽयमात्मा, सम्यकसम्पूर्णकेवलज्ञानमयोऽयमात्मा, पु. की. आ. इति चेदानन्द:-पूर्णानन्दमयोऽयमात्मा, पु. की. आत्मेति चेत् 'मूक्ष्मात् सूक्ष्मः' सर्वसूक्ष्मपदार्थेभ्यः सूक्ष्मः, यस्मात परतः कोऽपि सूक्ष्मो नास्ति, सर्वश्रेष्ठसूक्ष्म इति यावत् पु० की. आत्मेति चेत् 'परात्परः = सर्वोत्कृष्टेभ्योऽप्युत्कृष्टः-उत्कर्षाऽऽश्रयः, एतादृश आत्मा, मूत्वं-रूपित्वं, न स्पृशत्यपि-गच्छत्यपि, 'तथा चोक्तं परेरपि तथा च भगवद्गीतायां व्यासमुनिना यदुक्तं तदागामिश्लोके कथ्यमानमस्ति ॥३९॥
-भगवद्गीतोक्तोऽयं श्लोकः'इन्द्रियाणि परागयाहु-रिन्द्रियेभ्यः परं मनः ।
मनसोऽपि परा बुद्धि-यो बुद्धः परतस्तु सः ॥४०॥ टी. शरीरमपरमश्रेष्ठमस्ति, ततः शरीरत इन्द्रियाणि पराणि-श्रेष्ठान्याहुः, इन्द्रियेभ्यः चक्षुरादिज्ञानेन्द्रियेभ्यः, मनः. परं-श्रेष्ठं, 'मनसोऽपि-अन्तः करणतोऽपि बुद्धिः, परा-श्रेष्ठा, 'यो बुद्धेः परतस्तु सः तच्चविचारणफलवत्या बुद्धेः परः श्रेष्ठो योऽस्ति स आत्मैव इदमत्र हृदयम्-शरीरस्योपरीन्द्रियाणां मत्ताऽम्ति, इन्द्रियाणामुपरि मनसः स्वामित्वमस्ति, मनस उपरि बुद्धरधिकारोऽस्ति, बुद्धेपरि शासनमान्मनो विद्यते, एवं सर्वोपरिसत्ताधीश आत्माऽस्ति, अस्याऽऽत्मनः शासकसत्तामनुभृय, आत्मानं शान्तं
For Private & Personal use only
४२४॥
DO
lain Education Inter
www.jainelibrary.org