SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्याद् १ वदवस्तुत्वमेव भवेत् । ततश्च इह समवाये समवायत्वम् , इत्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्त्या घटत एव; ततो यथा पृथिव्यां पृथिवीत्वं समवायेन समवेतं, एवं समवायेऽपि समवायत्वं समवायान्तरेण संबन्धनीयम् । ॥३७॥ ४ तदप्यपरेण, इत्येवं दुस्तराऽनवस्थामहानदी। - एवं समवायस्यापि समवायत्वाभिसम्बन्धे युक्त्या उपपादिते, साहसिक्यमालम्ब्य पुनः पूर्वपक्षवादी वदति-ननु पृथिव्यादीनां पृथिवीत्वाद्याभसम्बन्धनिबन्धनं समवाया मुख्यः, तत्रत्वतलादिप्रत्ययाभिव्यङ्गयस्य सगृहीतसकलावान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योद्भवात् । इह तु समवायस्यैकत्वेन व्यक्ति9 भेदाभावे जातेरनुद्भूतत्वाद् गौणोऽयं युष्मत्परिकल्पित इहेतिप्रत्ययसाध्यः समवायत्वाभिसम्बन्धः,तत्साध्यश्च समवाय इति । तदेतद् न विपश्चिञ्चेतश्चमत्कारकारणम् । यतोत्रापि जातिरुद्भवन्ती केन निरुध्येत?। व्यक्तेरभेदेनेतिचेत् । न । तत्तदवच्छेदकवशात् तद्भेदोपपत्तौ व्यक्तिभेदकल्पनाया दुर्निवारत्वात् । अन्यो हि घटसमवायोऽन्य|| श्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति ; तत्सिद्धौ-सिद्ध एव जात्युद्भवः । तस्मादन्यत्रापि मुख्य एव समवायः; इहप्रत्ययस्योभयत्राप्यव्यभिचारात् । तदेतत्सकलं सपूर्वपक्षं समाधानं मनसि निधाय सिद्धान्तवादी पाह- न गौणभेद इति--गौण इति 18॥३७॥ योऽयं भेदः- स नास्ति; गौणलक्षणाऽभावात् । तल्लक्षणं चेत्थमाचक्षते Jain Educationaltional For Private & Personal Use Only waliorbelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy