SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ स्याद् ऽऽत्मादिकं नित्यमेव, अन्यच्च प्रदीपघटादिकमनित्यमेवः इत्येवकारोवापि सम्बध्यते; इत्थं हि दुर्नयवादाऽऽपत्तिः । अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वाऽऽदिधर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्तमानादुर्नया इति तल्लक्षणात् । इत्यनेनोल्लेखेन त्वदाज्ञाद्विषतां--भवत्प्रणीतशासनविरोधिना; प्रलापा:--प्रलपितानि, 8 असम्बद्धवाक्यानीति यावत् । ____ अत्र च प्रथममाऽऽदीपमिति परप्रसिद्ध्याऽनित्यपक्षोल्लेखेऽपि, यदुत्तरत्र यथासंख्यपरिहारेण पूर्वतरं नित्यमेवैकमित्युक्तम् , तदेवं ज्ञापयति-- यदनित्यं, तदपि नित्यमेव कथञ्चित् , यच्च नित्यं, तदप्यनित्यमेव कथञ्चित् ; प्रक्रान्तवादिभिरप्येकस्यामेव पृथिव्यां नित्यानित्यत्वाभ्युपगमात् । तथा च प्रशस्तकारः-" सा तु द्विविधा, नित्यानित्या च; परमाणुलक्षणा नित्या; कार्यलक्षणा त्वनित्या" इति । - न चात्र परमाणु-कार्यद्रव्यलक्षणविषयद्वयभेदाद् नैकाधिकरणं नित्यानित्यत्वमिति वाच्यम् : पृथिचीत्वस्योभयत्राप्यव्यभिचारात्; एवमवादिष्वपीति । आकाशेऽपि संयोगविभागाङ्गीकारात् तैरनित्यत्वं युक्त्या प्रतिपन्नमेव । तथा च स एवाह-"शब्दकारणत्ववचनात् संयोगविभागौ” इति नित्यानित्यपक्षयोः संवलितत्वम् । एतच्च लेशतो भावितमेवेति । - प्रलापप्रायत्वं च परवचनानामित्थं समर्थनीयम्-- वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम् । तच्चैकान्त. नित्यानित्यपक्षयोन घटते; अमच्युताऽनुत्पन्नस्थिरैकरूपो हि नित्यः; स च क्रमेणार्थक्रियां कुर्वीत, अक्र Jain Education int onal For Private & Personal Use Only w elibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy