SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ स्याद् 18/ अन्ये, प्रवादा दर्शनानि, मत्सरिणः- अतिशायने मत्वर्थीयविधानात् सातिशयाऽसहनताशालिनः क्रोध॥२०॥ कषायकलुषितान्त:करणाः सन्तः पक्षपातिनः, इतरपक्षतिरस्कारेण स्वकक्षीतपक्षव्यवस्थापनमवणा वर्तन्ते । कस्माद् हेतोर्मत्सरिणः १, इत्याह-अन्योन्यपक्षप्रतिपक्षभावात् । पच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्ट्येन हेत्वादिभिरिति पक्ष:- कक्षीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः, तस्य प्रतिकूलः पक्षः प्रतिपक्ष:- पक्षस्य प्रतिपक्षो विरोधी पक्ष प्रतिपक्षः, तस्य भावः पक्षप्रतिपक्षभावः, अन्योन्यं परस्परं यः पक्षप्रतिपक्षभावः पक्षप्रतिपक्षत्वमन्योऽन्यपक्षप्रतिपक्षभावस्तस्मात् । तथा हि- य एव मीमांसकानां नित्यः शब्द इति पक्षः, स एव सौगतानां प्रतिपक्षः, तन्मते शब्दस्याऽनित्यत्वात् । य एव सौगतानामनित्यः शब्द इति पक्षः, स एव मीमांसकानां प्रतिपक्षः। एवं सर्वप्रयोगेषु योज्यम् । तथा तेन प्रकारेण, ते तव, सम्यक् एति गच्छति शब्दोऽर्थमनेन इति "पुनाम्नि घ." ॥५।३।१२० । समयः संकेतः, यद्वा सम्यग अवैपरीत्येन अय्यन्ते | ज्ञायन्ते जीवा-ऽजीवादयोऽर्था अनेन, इति समयः सिद्धान्तः, अथ वा सम्यग अयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् वरूपे प्रतिष्ठा प्राप्नुवन्ति अस्मिन् इति समय आगमः, न पक्षपाती नैकपक्षानुरागी। पक्षपातित्वस्य हि कारणं मत्सरित्वं परमवादेषु उक्तम् , त्वत्समयस्य च मत्सरित्वाऽभावाद् न पक्षपातित्वम् । पक्षपातित्वं हि मत्सरित्वेन याप्तम्, व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयतीति मत्सरिले निवर्तमाने पक्षपातित्वमपि निवर्तते इति भावः। 'तव समयः' इति वाच्यवाचकभावलक्षणे 18॥२०॥ ०००००००००००००००००००००००००००००००००००००००00000 Jain Education stational For Private & Personal Use Only Sinelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy