SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ] जीवितं मरणं 'नृणां, गमनागमनं तया । रोग योगं धनं क्लेशं, सुखं दुःखं शुभाशुभम् ॥११॥ 18| पल्लीशः माह- तर्हि त्वं कथय-अस्मद्वैरिणोऽशोकचन्द्रनृपस्य कदा मरणं भविष्यति, येनास्मद्देशः स 18 गृहीतः ? । सिद्धेनोक्तम्-एकान्ते कथयिष्यामि । राज्ञा प्रोक्तम्-त्वं वद । सिद्ध आह षट्कर्णो भिद्यते मन्त्र-श्रतुष्कर्णो न भिद्यते। 'द्विकर्णः स्थीयते मन्त्री ब्रह्माऽप्यन्तं न गच्छति ॥११४॥ है। ततो नृपकर्णे प्रविश्य तेनोक्तं नृपमरणस्वरूपम् । नात्र सन्देहः । ततो राज्ञा प्रकटमेव स पृष्टः-तत्पदे कः। 18Iपुत्र उपवेक्ष्यति ? तेनोक्तं क्षणमेकं ध्यानं कृत्वा-राजपुत्राणां राज्यं न भविष्यति, अस्य गोत्रेऽपि राज्यमतः परं18 ४ न भविष्यति । किन्तु यस्त्वया पुण्याधिक खो(पो डके क्षिप्तोऽस्ति, तस्यैव राज्यं देवतादत्तं भविष्यति । नृपः 8| ४/पाह-हे सिद्ध ! किमसम्बद्धं भाषसे, ज्ञातं तव ज्ञानम् - एतस्य राज्यकथनेन । एष निर्धनो वणिक, अस्य नामापि|४| न ज्ञायते, यस्य पुण्यं स्यात्, तस्य नाम सर्वत्र ज्ञायते । उक्तं च विश्वेऽपि ज्ञायते नाम केषां पुण्यवतां स्फुटम् । नल-पाण्डव-रामाणां केषां गेहेऽपि नो भवेत् ॥११५॥ 81 सिद्धः पाह-अत्र सन्देहो न कार्यः । चेद् न मन्यसे, तदा प्रत्ययं वदामि-कल्ये यत् त्वया भुक्तं तत् ।। १ क. चापि । २ क सर्वाऽपि । ३ क. -न्तेन । ४ क, गजा प्राह अत्र सर्वेऽपि आत्मीया एव सन्ति, त्वं कथय । ५ क. प्राह । 81 ६ क. द्विकर्णस्थ तु मन्त्रस्य । ७ क, प्रियङ्करः । ८ के. पुरुष! ९ क. कोऽपि न जानाति । १० क राज्यमस्यैव भविष्यति। OsOsxxx xosoxoxoxo Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy