________________
सामा० १
Jain Education Inte
॥ अर्हम् ॥ श्रीस्तम्भनपार्श्वनाथाय नमः ।
श्रीमदकब्बरपातिशाहप्रतिबोधक - जङ्गमयुगप्रधान भट्टारक- श्रीजिनचन्द्रसूरि-मुख्यशिष्य-महोपाध्यायश्रीसकलचन्द्रगणि-शिष्य-अष्टलक्ष्याद्यनेकग्रन्थप्रणेतृ- उपाध्याय श्रीसमय सुन्दरगणि-विरचितम्
सामाचारीशतकम् ।
श्रीवीरं च गुरुं नत्वा, स्मृत्वा गच्छपरम्पराम् । प्रश्नोत्तरशतं ग्रन्थं, वक्ष्ये शास्त्रानुसारतः ॥ १ ॥ नानाप्रकाराः सन्देहा, उत्पद्यन्तेऽल्पमेधसाम् । सूत्रप्रकरणस्वीय-गच्छाचारानुगामिनः ॥ २ ॥ स्यात्सन्देहेन मिथ्यात्वं, मिथ्यात्वेन भववमिः । तस्मात्तस्य व्यपोहाय, प्रक्रमः क्रियते मया ॥ ३ ॥ सूत्र-निर्युक्ति-तद्वृत्ति- चूर्णिप्रकरणादिषु । वीक्ष्याऽक्षराणि वक्ष्येऽहं स्वगच्छाम्नायपूर्वकम् ॥ ४ ॥ रागद्वेषौ परित्यज्य, स्वपरस्मृतिहेतवे । सुगमं सोपयोगं च कुर्वे प्रश्नोत्तरक्रमम् ॥ ५ ॥
$
For Private & Personal Use Only
www.jainelibrary.org