SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ क्रियन्ते, मङ्गलप्रदीपश्च घृतमयः कसुम्भलवृत्तिकश्च तादृग्विधेयो यथा एकयैव वृत्त्या प्रज्वलन् संपूर्णशान्तिघोषणादिकृत्यं यावत् न विध्याति [संपूर्ण]। पश्चात् चतुर्विधसंघसहितो गुरुः ईर्यापथिकी प्रतिक्रम्य शक्रस्तवं आदितः कृत्वा अष्टादशभिः । स्तुतिभिर्देवादीन् वन्दते, आन्तरणीदोषो न कर्तुं देयः, देवतायाश्च स्तुतय इमाः-यदंघ्रिनमनादेव, देहिनः सन्ति सुस्थिताः । तस्मै नमोऽस्तु वीराय, सर्वविघ्नविघातिने ॥१॥ सुरपतिनतचरणयुगा-नाभेयजिनादिजिनपतीन् नौमि । यद्वचनपालनपरा, जलाञ्जलिं ददतु दुःखेभ्यः ॥२॥ वन्दन्ति वन्दारुगणाग्रतो जिनाः, सदर्थतो यद्रचयन्ति सूत्रतः । गणाधिपास्तीर्थसमर्थनक्षणे, तदङ्गनामऽस्तु मतं नु मुक्तये ॥३॥ शक्रः सुरासुरवरैः सहदेवताभिः, सर्वज्ञशासनसुखाय समुद्यताभिः। श्रीवर्धमानजिनदत्तमतप्रवृत्तान्, भव्यान् जनानवतु नित्यममङ्गलेभ्यः ॥४॥ ततः श्रीशान्तिनाथदेवाधिदेवाराधनार्थ करेमि काउस्सग्गं अन्नत्थू इत्यादि । रोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्रीशान्तये तस्मै, विहितानतशान्तये ॥५॥ ततः श्रीशान्तिदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । श्रीशान्तिजिनभक्ताय, भव्याय सुखसम्पदम् । श्रीशान्तिदेवता देया-दशान्तिमपनीय [ते] मे ॥ ६॥ ततः। श्रीश्रुतदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । सुवर्णशालिनी देयाद्, द्वादशाङ्गी जिनोद्भवा । श्रुतदेवी सदा मह्य-मशेषश्रुतसम्पदम् ॥७॥ ततः श्रीभवनहै देवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । चतुर्वर्णाय संघाय, देवीभवनवासिनी । निहत्य दुरितान्येषा, करोतु सुखमक्षतम् ॥८॥ ततः क्षेत्रदेवतानिमित्तकं करेमि काउस्सगं अन्नत्थू इत्यादि । यासां क्षेत्रगताः सन्ति, साधवः श्रावकादयः। जिनाज्ञां साधयन्तस्ता, रक्षन्तु क्षेत्रदेवताः॥९॥ ततः श्रीअम्बिकादेवतानिमित्तं करेमि काउस्सग्गं अन्नत्यू Jain Education Intemall For 281ersonal Use Only M ainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy