________________
K
सामाचारीशतकम्।
अस्वाध्या| य-मेलनउत्तारणाधिकार:
॥१८॥
ESKUSES EOS terkeste
सप्तवन्दनकानि, अपराहेऽपि एवमेव सप्त भवन्ति । तत्र चत्वारि दैवसिकप्रतिक्रमणे, त्रीणि स्वाध्याये अनुज्ञावन्दनानां स्वाध्यायवन्दनेषु अन्तर्भावादिति सर्वसंख्यया चतुर्दश वन्दनकानि भवन्ति, एतच्चाऽभक्तार्थिक अङ्गीकृत्योक्तं, यस्तु भक्कार्थि|कस्तस्य भोजनानन्तरभाविप्रत्याख्यानवन्दनकसहितानि पञ्चदश भवन्ति इति, एतेषां मध्यात् एकतरस्याऽपि कृतिकर्मणोडकरणे मासकं लघुकं प्रायश्चित्तं भवति ॥ ४४६९ ॥ एवं आचारदिनकरेऽपि नवाङ्गीवृत्तिकारक-श्रीअभयदेवसूरिसन्तानीयैः श्रीरुद्रपल्लीगच्छीयैः श्रीवर्धमानसूरिभिः प्रोक्तं, तथाहि-तत्र यः किलाऽऽहारग्राही भवति तदा स वन्दनकद्वयं ददाति, यो नाऽऽहारग्राही तस्य नेति, इत्यादिग्रन्थानुसारेणाऽभक्तार्थिकस्य चतुर्दश वन्दनकानि भवन्ति, भक्तार्थिकस्य च पश्चदश वन्दनकानि ज्ञेयानि, पश्चात् गच्छरीतिरपि प्रमाणमिति संवरणे भुक्तैरेव वन्दनकानि देयानि नाऽमुक्कैरिति ॥ ९२॥
॥ भोजनानन्तरं संवरणे वन्दनकानां अधिकारः॥ ९२॥ ननु-चैत्राश्विनमासयोः अस्वाध्यायमेलनस्वाध्यायोत्तारणविधिः कः? उच्यते-चैत्राश्विनमासयोः द्वितीयपक्षे प्रतिपदि द्वितीयां वा मुख्यविहारिसाधोः चन्द्रादिवले मुहूर्ते च शुभे सति कल्पत्रेपमेलनं क्रियते, तत्राऽयं विधिः-स्थापनाचार्याग्रे समागत्य ईर्यापथिकी प्रतिक्रम्य मुखवस्त्रिका प्रतिलेख्य वन्दनकद्वयं दत्त्वा "इच्छामि क्षमाश्रमण" इत्यादि क्षमाश्रमणपूर्व |"सज्झाय निक्खिवि" द्वितीयक्षमाश्रमणेन "सज्झायनिक्खिवणत्थं काउस्सग्ग करूं", तृतीयक्षमाश्रमणेन "सज्झाय निक्खिवणत्थं करेमि काउस्सग्गं अन्नत्थूसस्सिएण"मित्यादिपाठपूर्व कायोत्सर्ग, तत्र नमस्कारं एकं चिन्तयित्वा पुननेमस्कारं एक कथयित्वा अणुजाणिज्यो इति कथनं । अथोत्तारणविधिः यथाहि, वैशाख-कार्तिकमासयोः प्रथमपक्षे द्वितीयातः पश्चात् सोम
*%ESARSANSARA
॥१८१॥
Jain Education Intel
For Private & Personal Use Only
Ww.ainelibrary.org