________________
सामाचारीशतकम्।
॥१२३॥
तथा उपांगछेद-ग्रन्थकर्म-ग्रन्थाद्यनेकागमानुयोगसूत्रधरैः श्रीमलयगिरिभिः आवश्यकं विवृणद्भिः, “अरिहंतनमु-| कारो" इत्यादिका "एसो पंचे"ति पर्यन्ताः षगाथा: "हवइ मंगल"मिति पाठत एव लिखिताः सन्ति, एवं प्रवचन-16 गलंपाठसारोद्धारवृत्तौ अपि हवइ मंगलमिति पाठः समर्थितोऽस्ति, तथाहि-यद्यप्यत्र 'हवई' 'होई' इत्यनयोः पाठयोरर्थे न निषेधाकश्चिद्विशेषः, तथापि अष्टषध्यक्षरार्थ नवकारे हवइ इति पठितव्यं, ततो नमस्कारावलिकादिग्रन्थेषु यन्त्रपझे उक्तमस्ति, धिकारः विशेषकार्योत्पत्तौ चूलिकाध्यानं यदा क्रियते तदा द्वात्रिंशद्दलकमले द्वात्रिंशद्दलेषु द्वात्रिंशदक्षराणि स्थापयित्वा त्रयस्त्रिंशत्तम
५२ अक्षरं मध्यकर्णिकायां स्थाप्यते, ततो ध्यानं क्रियते, ततो 'होई' पाठे द्वात्रिंशद्भिरक्षरैःद्वात्रिंशत्कमलदलान्येव पूर्यन्ते परं मध्यकर्णिका शून्यैव तिष्ठति, ततो हवइ मंगलमिति पाठो युक्तः, तथा चैतत्संवादि पूर्वाचार्यकृतप्रकरणवचनं “अडसट्टि अक्खरपरमाणू, जिणसासननवकारपहाणू । अंतिमचूला तिन्नि पसिद्धा, सोलसअट्ठनवकार सिद्ध ॥१॥" न च वाच्यं नमस्कारसूत्रे नमस्कारस्य सप्तषष्ठ्यक्षरवत्त्वं प्रोक्तमस्ति, यतः एसो पंचनमुक्कारों' इत्यादिगाथाऽपि नमस्कारसूत्रसम्ब|न्धिनी नाऽस्ति, किं तु नियुक्तिसत्का, ततो "ग्रामो नाऽस्ति, कुतः सीमा ?" इति न्यायात् कथं सप्तषष्ट्याक्षरवत्त्वं नमस्कारस्य ? मूलसूत्रनियुक्तिभाष्यचूर्णिवृत्तिटिप्पनकादिषु क्वाऽपि निर्दिष्टं न दृश्यते न श्रूयते च । अष्टषष्ठ्यक्षरप्रमाणत्वं च महानिशीथादिषु स्पष्टमेव उद्दिष्टं, तथाहि
॥१२३॥ ___ "तहेव तदवत्थाणुगमिअं इक्कारसपयपरिच्छिन्नं तिआलावगं तित्तीसक्खरपरिमाणं एसो पंचनमुक्कारो, सबपावप्पणासणो । मंगलाणं च सबेसि,' पढमं हवइ मंगलं इयचूलं ति “अहिजंति" महानिशीथे तथा-'एअं तुजं पंच
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org