________________
॥ अथ तृतीयः प्रकाशः॥ ॥ श्रीमत्पार्श्वनाथाय नमः॥
40640ROSSA
ननु-श्रावकाणां वाऽपि ग्रन्थे सामायिकपौषधप्रतिक्रमणवन्दनादौ मुखवस्त्रिका प्रोक्ताऽस्ति न वा उच्यते-अस्ति एव, कथं ? तत्रार्थे श्रूयतां-यत्र सिद्धान्ते प्रतिक्रमणादिक्रिया प्रोक्ताऽस्ति, तत्र साधूनेव उद्दिश्य प्रोक्ताऽस्ति, परंन पार्थक्येन श्रावकाणां, श्रावकैस्तु साध्वनुयायित्वेन सर्व साधुवत् क्रियानुष्ठानं क्रियमाणमस्ति । अपि च श्रावकाणां कृतसामायिकानां चतुर्थोपकरणमध्ये मुखवस्त्रिका श्रीअनुयोगद्वारचूर्णौ प्रोक्ताऽस्ति, तथाहि "सामाइअकडस्स समणोवासगस्स चरविहे धम्मोवगरणे पन्नत्ते, तं जहा ठवणायरियत्ति १ मुहपत्तिअत्ति २ जवमालिअत्ति ३ दंडपाउंछणगत्ति ४" इति। पुनर्मुखवत्रिका प्रतिलेखितां विना वन्दनकदाने श्रीव्यवहारचूर्णी प्रायश्चित्तं उक्तमस्ति, तथाहि "जो मुहपोत्तिं अप्पडिलेहिता वंदणं देइ |गोयमा? तस्स गुरूअं पायच्छित्तं।" पुनर्मुखवस्त्रिका प्रतिलेख्य सिंहाख्यश्रावकेण पौषधो गृहीतोऽस्ति, यदुक्तं श्रीव्यवहारचूलिकायां, तथाहि-"गंतुं पोसहसालाए ठवित्तुं ठवणायरियं मुहपोतिं पडिलेहिता सीहो गिण्हइ पोसहं । १।" इति । पुनव्र्यवहारचूर्णी मुखवस्त्रिकाग्रहणपूर्व श्रावकस्य पौषधग्रहणं प्रतिपादितमस्ति, तथाहि “पावरणं पमोत्तुणं गिण्हिता मुहपोत्ति वत्थकायसुद्धीए करेई पोसहाइअं" इति ।। तथा श्रीआवश्यके अस्वाध्यायनिर्युक्तौ (७३४ पत्रे ) गाथा यथा
Jain Education Inter
FOEP235sonal Use Only
w
ww.jainelibrary.org