SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीभाव० मलयगि० वृत्ती सूत्र स्पर्शिका ॥ ५९८ ॥ Jain Education Intern इति तद्द्व्यवच्छेदार्थं धर्म्मतीर्थकरानित्युक्तं । आह-यद्येवं धर्म्म तीर्थ करा नित्येतावदेवास्तु, लोकस्योद्योतकरानिति न वाच्यं, उच्यते, इह लोके येऽपि नद्यादिविषमस्थानेषु मुधिकया धर्म्मार्थमवतरणतीर्थकरणशीलास्तेऽपि धर्म्मतीर्थकरा भण्यन्ते, ततो मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याह । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहियथोक्तप्रकारा जिना एव भवन्तीति, उच्यते, इह केषांचिदिदं दर्शनं- "ज्ञानिनो धर्म्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छति भूयोऽपि भृशं ( भवं ) तीर्थनिकारतः ॥ १ ॥ ” इत्यादि, ततस्तन्मतपरिकल्पितेषु यथोक्तप्रकारेषु मा भूत् सम्प्रत्यय इति तद्व्यवच्छेदार्थ जिनानित्याह, जिना नाम रागादिजेतारः, ते च कुनयपरिकल्पिता जिना न भवन्तीति, तीर्धनिकारतः। पुनरिह भवाङ्कुरोत्पादनादूं, अन्यथा स न स्यात्, बीजाभावात् तथा चोक्तमन्यैरपि - " अज्ञानपांशुपिहितं पुरातनं कर्म्मवीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माकुरं जन्तोः ॥ १ ॥ दग्धे वीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ २ ॥” आह- यद्येवं जिनानित्येतावदेवास्तु, लोकस्योद्योतकरानित्याद्यतिरिच्यते, उच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपि जिना उच्यते, तद्यथा श्रुतजिना अवधिजिना मनःप र्यायज्ञानिजिनाश्छद्मस्थवीतरागाश्च ततो मा भूत्तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याद्यप्यदुष्टं । अपरस्त्वाह- अर्हत इति न वाच्यं, न खल्वनन्तरोदितस्वरूपा अर्हद्व्यतिरेकेणापरे सम्भवन्ति, उच्यते, अर्हतामेव विशेव्यत्वान्न दोषः आह-यद्येवं तर्हि अर्हत इत्येतावदेवास्तु, लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न, तस्य विशेषणत्वात्, विशेषणसाफल्यस्य च प्रतिपादितत्वादिति । अपरस्त्वाह- केवलिन इति न वाच्यं यथोक्तस्वरूपाणामर्हतां केवलित्वव्यभि For Private & Personal Use Only जिनादि - स्वरूपं ॥ ५९८ ॥ jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy