________________
PROGRAMMERE
एवं शेषभवानुभावा अपि वाच्याः, तथा भावस्य-जीवाजीवादिसम्बन्धिनः परिणामाः-तेन तेन अज्ञानात् ज्ञानं नीलालोहितमित्यादिप्रकारेण भवनानि भावपरिणामाः, एवमेनं चतुर्विधमोघतः पर्यायलोकं समासेन सङ्केपेण जानीहि अवबुध्यस्व ॥ तत्र यदुकं द्रव्यगुणा इत्यादि तदुपदर्शनेन निगमयन्नाहवन्नरसगंधसंठाण-फासठाणगइवन्नभेए या परिणामे य बहुविहे पज्जवलोगं विआणाहि (समासेणं)॥२०॥(भा.का
वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदान् , चशब्दात् रसगन्धसंस्थानादिभेदांश्च, इयमत्र भावना-वर्णादयः सप्रभेदा ग्रहीतव्याः, तत्र वर्णस्य भेदाः कृष्णादयः पञ्च, रसस्यापि तिक्कादयः पञ्च, गन्धस्य सुरभीतररूपी द्वौ भेदी, संस्थान परिमण्डलादिभेदात् पञ्चधा, स्पर्शः कठिनादिभेदादष्टधा, स्थानमवगाहनालक्षणं, तद् आश्रयप्रदेशभेदादनेकधा, गतिर्दधास्पृशद्गतिरस्पृशद्गतिश्च, अथवा चशब्दः कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसङ्ग्रहार्यः, अनेन भाकिल द्रव्यगुणा इत्येतद् व्याख्यातं, परिणामांश्च बहुविधानित्यनेन तु चरमद्वारम् , शेषद्वारद्वयं पुनः स्वयमेव भावनीयं,
परिणामांश्च बहुबिधानिति जीवाजीवभावगोचरान् , किमित्यत आह- पर्यायलोकं जानीहि, पर्याय एव लोकः पर्यायलोक इति व्युत्पत्तेः ॥ सम्प्रति लोकपर्यायशब्दान् निरूपयति. .. आलुकई पलुक्कइ लुक्कइ संलुक्कई य एगट्ठा । लोगो अट्ठविहो खलु तेणेसो वुचई लोगो॥१०७० ॥ |- आटोक्यते इत्यालोकः, प्रलोक्यते इति प्रलोकः, लोक्यते इति लोकः, संलोक्यते इति संल्लोकः, एते चत्वारोऽपि
कर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org