________________
A
CCORICALCOCONUGAMCE%
नेच्छन्ति-न बह मन्यन्ते, यच्चों-'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागात् शुभ एवाध्यवसाय' इत्यादि, तदपि यत्किचित्, व्यभिचारात्, कस्यचिदल्पसत्त्वस्य अविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते यशःकीाद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिः, शुभाध्यवसायभावे तु स एव भावस्तवः, इतरस्तु तत्कारणत्वेनाप्रधानमिति, तथा भावस्तव एव सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तववतः सम्यगमरादिभिरपि पूज्यत्वात् , तमेव च दृष्ट्वा क्रियमाणमन्ये सुतरां प्रतिबुद्यते इति स्वपरानुग्रहोऽपीहैवेति गाथाद्वयभावार्थः॥ आह-यद्येवं किमयं द्रव्यस्तव एकान्ततो हेय एव वर्त्तते !, आहोश्विदुपा-15 देयोऽपीति !, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि, तथा चाहअकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो दवथओ कूवदितो ॥१९६ ॥ (भा.) __ अकृत्स्नं, संयममिति सामर्थ्यात् गम्यते, प्रवर्तयन्तीत्यकृत्स्नप्रवर्तकास्तेषां, विरताविरतानां श्रावकाणामेष-द्रव्यस्तवः खलु युक्त एव, खलुशब्दस्यावधारणार्थत्वात्, किंकृदयमित्याह-संसारप्रतनुकरणः, संसारक्षयकारक इति भावः, आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्तः १, उच्यते, अत्र कूपदृष्टान्तः, जहा नवनगराइसंनिवेसे केई पभूतजलाभावतो तण्हादिपरिगया तदपनोदार्थ कूप खणंति, तेसिं च जइवि तण्हाइया वटुंति मट्टियाकद्दमादीहि य मलिणिजंति तहावि तदुब्भवणं चेव पाणीएणं तेसि ते तिण्हाइया सो य मलो पुवगो य फिट्टइ, सेसकालं च ते तदन्ने य लोगा सुहभागिणो य भवन्ति, एवं दबत्थए जइवि असंजमो तहावि ततो चेव सा परिणामवुड्डी भवति जा असंजमोवजियं अन्नं व निरवसेसं खति, तम्हा विरताविरतेहिं एस दबत्थओकायबो, सुभाणुवंधी पभूयतरनिजराफलो यत्ति, उक्तः स्तवः।
CAKACHAR
Jain Education Intern
a
l
For Private & Personal use only
www.jainelibrary.org