________________
**
वृद्धिं घ्यावयित्वा अनन्तगुणहान्यकैकवर्गणास्थापनेन योगस्याल्पीकरणं, तब पूर्वस्पर्द्धकानामपूर्वस्पर्धकानां च याः प्रथमादिवर्गणास्तासां येऽविभागपरिच्छेदास्तेषामयमसनंयेयान् भागानाकर्षति, एकमसङ्ख्येवभागं स्थापयति, जीवप्रदेशाना
मपि चैकमसङ्ख्येयभागमाकर्षति, शेष सर्व स्थापयति, एष किट्टीकरणप्रथमसमयन्यापारः, ततो द्वितीयसमये प्रथमसमदयाकृष्टवीर्याविभागपरिच्छेदभागादसवयेयगुणवीर्याविभागपरिच्छेदानां भागमाकर्षति, जीवप्रदेशानां पुनः प्रथमसमया
कृष्टजीवप्रदेशासचेभागादसङ्ख्येयगुणं भागं, तावतोऽसङ्ख्येयान् भागानाकर्षतीत्यर्थः, एवं तावत् किट्टीः करोति याव४ादप्यन्तर्मुहुर्तचरमसमयः, तत्र प्रथमसमयकृताभ्यः किट्टीभ्यो द्वितीयसमयकृताः किट्टयोऽसङ्ख्येयगुणहीनाः, गुणकारश्च तापल्योपमासङ्ख्येयभागः, एवं शेषेष्वपि भावनीयम्, तथा चोक्तं कर्मप्रकृतिप्राभृते-' 'एत्यं अंतोमुहत्तं किट्टीतो
करेइ, असंखेजगुणहीणाए सेढीए, जीवपएसे य असंखेजगुणाए सेढीए पकड्डइ, किट्टीगुणकारो पलिओवमस्स असंखेजइभागों' ति, प्रथमसमयकृताश्च किट्टयः श्रेण्यसङ्ख्येयभागप्रमाणाः, एवं द्वितीयादिसमयेष्वपि प्रत्येकमवगन्तव्याः, सर्वा अपि च कियः श्रेण्यसङ्ख्येयभागप्रमाणाः पूर्वस्पर्द्धकानां च सङ्ख्येयभागमात्राः, किट्टीकरणावसानानन्तरसमये एव च पूर्वस्पर्द्धकान्यपूर्वस्पर्द्धकानि च सामस्त्येन नाशयन्ति, तत्समयादारभ्य अन्तर्मुहूर्त यावत् किहिगतयोगो भवति, तथा चोक्तम्-"किहिकरणे निट्ठिए ततो सेकाले पुवफडुगाणि अपुवफडुगाणि च सेसेइ, अंतोमुहुत्तं किट्टिगयजोगो भवति" त्ति, न चात्र किश्चिदपि करोति, ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भादन्तर्मुहुर्त्तमात्रेण सूक्ष्मवाग्योग निरुणद्धि, ततो निरुद्धसूक्ष्मवाग्योगोऽन्तर्मुहर्गमास्ते, नान्यसूक्ष्मयोगनिरोधं प्रति प्रयत्नवान् भवति, ततोऽन
***
Jain Education International
For Plate & Personal Use Only
www.jainelibrary.org