SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ विंशतिसागरोपममानस्य कालचक्रस्य द्वौ मूलभेदौ-उत्सप्पिणीच अवसर्पिणीच, एकैका षड्विभागा, तत्रावसर्पिण्यां सुषम-1 सुषमाख्यःप्रवाहतश्चतुःसागरोपमकोटीकोटीप्रमाणः प्रथमः कालविभागः, द्वितीयः सुषमाख्यस्त्रिसागरोपमकोटीकोटीमानः, दिला तृतीयः सुषमदुष्षमाख्यः सागरोपमद्वयकोटीकोटीमानः, चतुर्थो दुष्षमसुषमाख्यो द्वाचत्वारिंशद्वर्षसहस्रन्यूनसागरोपमको टीकोटीमानः, पञ्चमो दुष्षमाख्य एकविंशतिवर्षसहस्रमानः, षष्ठो दुष्षमदुष्षमाख्यः, सोऽप्येकविंशतिवर्षसहस्रमानः, अय-1 मेव चोत्क्रमेणोत्सर्पिण्यामपि यथोत्तरसख्यः कालक्रमो वेदितव्यः, अवस्थितश्चतुर्विधस्तद्यथा-सुषमसुषमासुखप्रतिभागः। सुषमासुखप्रतिभागः सुषमदुष्पमासुखप्रतिभागः दुष्पमसुषमासुखप्रतिभागश्च, तत्र प्रथमो देवकुरूत्तरकुरुषु, द्वितीयो | हरिवर्षरम्यंकयोः, तृतीयो हैमवतहैरण्यवतयोः, चतुर्थो महाविदेहेषु, तत्रोत्सपिण्यामवसर्पिण्यां च प्रत्येकं पडिधेऽपि कालविभागे सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः प्रतिपत्तिः सम्भवति, प्रतिपद्यमानकः सम्भवतीति भावः, स च प्रतिपद्यमानकः सुषमसुषमादिषु देशन्यूनपूर्वकोव्यायुःशेष एव प्रतिपद्यते, नाधिकायुःशेषः, उक्तं च चूर्णो-"सुसमसुसमादिसु पुचकोडिदेसूणाउसेसा पडिवजंति"त्ति, पूर्वप्रतिपन्नकास्त्वेतयोईयोरपि सामायिकयोर्विद्यन्ते एव, तथा विरतिसमग्रचारित्रलक्षणां विरताविरतिं-देशचारित्रात्मिकां प्रतिपद्यते कश्चिद् द्वयोः कालयोस्त्रिषु वा कालविभागेषु, इयमत्र भावना-उत्सर्पिण्यांद्वयोः दुष्षमसुषमायां सुषमदुष्षमायां च, अवसर्पिण्यां त्रिषु, तद्यथा-सुषमदुष्षमायां दुष्षमसुषमायां दुषमायां च, विवक्षिते काले सर्वविरतिसामायिकस्य देशविरतिसामायिकस्य च प्रतिपद्यमानकः कदाचिद्भवति कदाचिन्न, पूर्वप्रतिपन्नस्तु विद्यत एव, 'दोसुतिसु वावी'त्यत्रापिशब्दः सम्भावने, स चैतत् सम्भावयति-संहरणं प्रतीत्य पूर्वपतिप Jain Education Inter For Private & Personal use only jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy