________________
*CROCIR C%
त्ति आवश्यकशब्देन केवलमेव सामायिकमिति न वाच्यं, यतो निरुपपदेनावश्यकशब्देनाध्ययनषट्कमेवोच्यते, तथाहि 'आवस्सयं अवस्सकरणिजं धुवनिग्गहो विसोही य । अज्झयणछक्कवग्गो नाओ आराहणामग्गो' ।। अनुयोगद्वारे । 'आवासं काऊणं'। आचा० नियुः । यदा प्रथमादिविशेषणमावश्यकस्य तदैकैकं लभ्यतेऽन्यथा तु षट्कमेवेति। तथा 'आवासयं करितो ती'त्यत्र इतिशब्दः प्रस्तावनार्थः यथा ' कहं वयामो त्ति तत्थ उव्वया' । ओघ० नि । ' मित्ति मिउमद्दवत्ते' गाथाद्वये स्थानषट्के इतिशब्दाः प्रस्तावनार्थाः। 'आव०' अत एव चउसु ठाणेसु नियमा कायवं इत्यादिपदानां श्रीमदभयदेवमरिभिरप्येवं पदयोजना कृता तद्यथा चतुर्ष स्थानेषु पुनर्नियमात्करोति चैत्यगृहे साधुसमीपे पौषधशालायां स्वगृहे वावश्यकं कुर्वाणस्तत्र यदि साधुसमीपे करोति तत्रायं विधिरिति प्रथमपञ्चाशकवृ० । तथावश्यकं कुर्वाणस्तत्र यदि साधुसमीपे करोति तत्रायं विधिरित्येतेन वाक्येनास्य उत्तरग्रन्थेन सह सम्बन्धं कुर्वतोऽस्यायमाशयो लक्ष्यते । पुनः कश्चिदाह नन्वस्मिन् दण्डके सामायिकस्य प्रस्तुतत्वात् पर्यन्ते च 'एसा विही सामाइयस्स' इति भणनाच्च कथमन्तरा षडावश्यकमापतितमिति चेदुच्यते 'सवं चउसु ठाणेसु नियमा कायवमित्यादिवाक्यात् यदि च सामायिकमेवात्र केवलं निर्वाण(घ) स्यात्तदा 'जत्थ वा वीसमइ अच्छइ वा निवावारो करेई' इत्येतत्पदानन्तरं 'तत्थ जइ साहुसगासे करेइ तत्थ का विही' इत्येवं पठितं स्यात् , न पुनः 'सत्वं चउसु ठाणेसु इत्यादिकं आवस्सयं करितो त्ये' तत्पर्यन्तं मध्यवाक्यमिति । अपरं च सामायिकस्य प्रस्तावना 'तं सावएण कह कायवमि'त्यनेनैव पदेन कृता, तत् किं पुनरपि तस्यैव प्रस्तावनाय 'आवस्सयं करितो त्ति' पठ्यते । तस्मादेते(तेन) पडावश्यकमेव प्रस्ताव्यत इत्यवबुध्यते । किश्च यद्यत्र सामायिकस्यैव विधिः स्यान्न पुनः पडावश्यकस्य ततः 'ताहे घरे चेव सामाइयं
4%9ॐॐ45-25
%
%
%
%
%AE%
For Private & Personal Use Only
Jain Education Internet
www.iainelibrary.org
EO